stotra लेबल असलेली पोस्ट दाखवित आहे. सर्व पोस्ट्‍स दर्शवा
stotra लेबल असलेली पोस्ट दाखवित आहे. सर्व पोस्ट्‍स दर्शवा

||देवीचतुःषष्ट्युपचारपूजास्तोत्रम्||

    .. देवीचतुःषष्ट्युपचारपूजास्तोत्रम् .. ॐ अथ श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम् उषसि मागधमङ्गलगायनैः झटिति जागृहि जागृहि जागृहि . अतिकृपार्द्रकटाक्षनिऱीक्षणैः जगदिदं जगदम्ब सुखीकुरु .. १ .. कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् . मणिमयमण्टपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् .. २ .. कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् . भगवति तव संनिवासहेतोः मणिमयमन्दिरमेतदर्पयामि .. ३ .. तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा . नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता .. ४ .. कनकमयवितर्दिस्थापिते तूलिकाढये विविधकुसुमकीर्णे कोटिबालार्कवर्णे . भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय .. ५ .. मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् . कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि .. ६ .. दूर्वया सरसिजान्वितविष्णु- कान्तया च सहितं कुसुमाढ्यम् . पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ..७.. गन्धपुष्पयवसर्षपदूर्वा- संयुतं तिलकुशाक्षतमिश्रम् . हेमपात्रनिहितं सह रत्नैः अध्यर्मेतदुररीकुरु मातः .. ८ .. जलजद्युतिना करेण जाती- फलतक्कोललवङ्गगन्धयुक्तैः . अमृतैरमृतौरिवातिशीतैः भगवत्याचमनं विधीयताम् .. ९ .. निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् . तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् .. १० .. एतच्चम्पकतैलमम्ब विविधैः पुष्पैः मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैः भ्रमद्भिः वृतम् . सानन्दं सुरसुन्दरीभिरभितो हस्तैः धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते .. ११ .. मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः . केशानामलकैः विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः .. १२ .. दुधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः . स्नपयामि तवाहमादरात् जननि त्वां पुनरुष्णवारिभिः .. १३ .. एलोशीरसुवासितैः सकुसुमैर्गङ्गादि तीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः . मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु .. १४ .. बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् . मुक्ताभिः ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु .. १५ .. नवरत्नमये मयार्पिते कमनीये तपनीयपादुके . सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् .. १६ .. बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा . सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि .. १७ .. सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् . तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय .. १८ .. मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले . केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् .. १९ .. धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् . मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कटखां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ .. २० .. मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः . वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् .. २१ .. रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः . अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा .. २२ .. जननि चम्पकतलैमिदं पुरो मृगमदोपयुतं पटवासकम् . सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् .. २३ .. सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति . बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती- रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव .. २४ .. मन्दारकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततं अहं परिपूजयामि . जातीजपावकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि .. २५ .. मालतीवकुलहेमपुष्पिका- काञ्चनारकरवीरकैतकैः . कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः .. २६ .. पारिजातशतपत्रपाटलैः मल्लिकावकुलचम्पकादिभिः . अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः .. २७ .. लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः . श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्त्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु .. २८ .. रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः . आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः .. २९ .. मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः . एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् .. ३० .. सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि . शाकोल्लसन्मरिचिजीरकबाह्निकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि .. ३१ .. क्षीरमेतदिदंमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु . मातरेतदमृतोपमं पयः संभ्रमेण परिपीयतां मुहुः .. ३२ .. उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे . कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन .. ३३ .. अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् . पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् .. ३४ .. जम्बवाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि . सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि .. ३५ .. कूश्माण्डकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि . सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि .. ३६ .. कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः . मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु .. ३७ .. एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि . ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि .. ३८ .. ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् . सौवर्णपात्रनिहितं खदिरेन सार्धं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण .. ३९ .. महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान् . बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते .. ४० .. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य . मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः .. ४१ .. अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः . मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि .. ४२ .. मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् . भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् .. ४३ .. शरदिन्दुमरीचिगौरबर्णै- र्मणिमुक्ताविलसत्सुवर्णदण्डैः . जगदम्ब विचित्रचामरैस्त्वा- महमानन्दभरेण बीजयामि .. ४४ .. मार्ताण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते . पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् .. ४५ .. इन्द्रादयो नतिनतैर्मकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम् . तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः .. ४६ .. प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः . भगवति कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरंगः .. ४७ .. मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः कनककलितघण्टाकिङ्कणीशोभिकण्ठः . श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्यान्मत्तमातङ्ग एषः .. ४८ .. द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् . कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि .. ४९ .. हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम् . अतिबहु चतुरङ्गसैन्यमेत- द्भगवति भक्तिभरेण तेऽर्पयामि .. ५० .. परिघीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते विपुलम् . प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि .. ५१ .. शतपत्रयुतैः स्वभावशीतैः अतिसौरभ्ययुतैः परागपीतैः . भ्रमरीमुखरीकृतैरनन्तैः व्यजनैस्त्वां जगदम्ब वीजयामि .. ५२ .. भ्रमरलुलितलोलकुन्तलाली- विगलितमाल्यविकीर्णरङ्गभूमिः . इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः .. ५३ .. मुखनयनविलासलोलवेणी- विलसितनिर्जितलोलभृङ्गमालाः . युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः .. ५४ .. भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः . अनुपमितसुवेषा वारयोषा नटन्ति परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु .. ५५ .. डमरुडिण्डिमजर्झरझल्लरी- मृदुरवद्रगडद्द्रगडादयः . झटिति झाङ्कृतझाङ्कृतझाङ्कृतैः बहुदयं हृदयं सुखयन्तु ते .. ५६ .. विपञ्चीषु सप्तस्वरान्वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः . क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि .. ५७ .. अभिनयकमनीयैर्नर्तनैर्नर्तकीनां क्षनमपि रमयित्वा चेत एतत्त्वदीयम् . स्वयमहमतिचितैर्नृत्तवादित्रगीतैः भगवति भवदीयं मानसं रञ्जयामि .. ५८ .. तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः . तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः .. ५९ .. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति . तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि .. ६० .. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् . अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् .. ६१ .. चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कन्ठदेशेऽर्पयित्वा . शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु .. ६२ .. अथ मणिमयञ्चकाभिरामे कनकमयवितानराजमाने . प्रसरदगरुधूपधूपितेऽस्मि- न्भगवति भवनेऽस्तु ते निवासः .. ६३ .. एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ . विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि- न्पर्यङ्के कनकमये निषीद मातः .. ६४ .. तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः . अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् .. ६५ .. अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् . तपनीयमये हि पट्टके मुखगण्डूचजलं विधीयताम् .. ६६ .. क्षणमथ जगदम्ब मञ्चकेऽस्मि- न्मृदुतलतूलिकया विराजमाने . अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती .. ६७ .. मुक्ताकुन्देन्दुगौरां मणिमयकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् . नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि .. ६८ .. एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व . न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः .. ६९ .. पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे . ध्रमार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवभावमेति .. ७० .. पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः . पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति .. ७१ .. प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् . वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् .. ७२ .. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ..

||श्री चण्डीपाठ||

 .. श्री चण्डीपाठ ..


              .. ॐ श्री देवैः नमः ..

              .. अथ चंडीपाठः ..

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता .
नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः .. ५-१६..

या देवी सर्वभूतेषु चेतनेत्यभिधीयते .
नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः .. ५-१९..

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता .
नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः .. ५-२२..

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता .
नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः .. ५-२५..

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता .
नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः .. ५-२८..

या देवी सर्वभूतेषु च्छायारूपेण संस्थिता .
नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः .. ५-३१..

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता .
नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः .. ५-३४..

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता .
नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः .. ५-३७..

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता .
नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः .. ५-४०..

या देवी सर्वभूतेषु जातिरूपेण संस्थिता .
नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः .. ५-४३..

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता .
नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः .. ५-४६..

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता .
नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः .. ५-४९..

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता .
नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः .. ५-५२..

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता .
नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः .. ५-५५..

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता .
नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः .. ५-५८..

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता .
नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः .. ५-६१..

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता .
नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः .. ५-६४..

या देवी सर्वभूतेषु दयारूपेण संस्थिता .
नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः .. ५-६७..

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता .
नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः .. ५-७०..

या देवी सर्वभूतेषु मातृरूपेण संस्थिता .
नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः .. ५-७३..

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता .
नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः .. ५-७६..

इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या .
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः .. ५-७७..

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् .
नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः .. ५-८०..

               .. इति चंडीपाठः ..

||.. कल्याणवृष्टिस्तवः ..||

.. कल्याणवृष्टिस्तवः ..
        .. श्रीः..
कल्याणवृष्टिभिरिवामृतपूरिताभि- 
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः .
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् .. १..
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे .
सांनिध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य .. २..
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः .
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति .. ३..
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् .
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि .. ४..
ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे .
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दिव्यन्ति नन्दनवने सह लोकपालैः .. ५..
हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः .
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य .. ६..
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः .
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति .. ७..
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवात्कटाक्षैः .
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् .. ८..
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु .
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव .. ९..
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- 
मालोकय त्रिपुरसुन्दरि मां कदाचित् .
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा .. १०..
ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे .
मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः .. ११..
संपत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि .
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् .. १२..
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य .
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका .. १३..
लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् .
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम् .. १४..
ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति .
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः .. १५..
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् .
तस्य क्षोणिभुजो भवन्ति वश्गा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः .. १६..
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
कल्याणवृष्टिस्तवः संपूर्णः..

||.. उमामहेश्वरस्तोत्रम् .||


.. उमामहेश्वरस्तोत्रम् ..  ..
श्री शङ्कराचार्य कृतम् .
नमः शिवाभ्यां नवयौवनाभ्याम्
परस्पराश्लिष्टवपुर्धराभ्याम् .
नागेन्द्रकन्यावृषकेतनाभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. १..
नमः शिवाभ्यां सरसोत्सवाभ्याम्
नमस्कृताभीष्टवरप्रदाभ्याम् .
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् .. २..
नमः शिवाभ्यां वृषवाहनाभ्याम्
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् .
विभूतिपाटीरविलेपनाभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ३..
नमः शिवाभ्यां जगदीश्वराभ्याम्
जगत्पतिभ्यां जयविग्रहाभ्याम् .
जम्भारिमुख्यैरभिवन्दिताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ४..
नमः शिवाभ्यां परमौषधाभ्याम्
पञ्चाक्षरी पञ्जररञ्जिताभ्याम् .
प्रपञ्चसृष्टिस्थिति संहृताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ५..
नमः शिवाभ्यामतिसुन्दराभ्याम्
अत्यन्तमासक्तहृदम्बुजाभ्याम् .
अशेषलोकैकहितङ्कराभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ६..
नमः शिवाभ्यां कलिनाशनाभ्याम्
कङ्कालकल्याणवपुर्धराभ्याम् .
कैलासशैलस्थितदेवताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ७..
नमः शिवाभ्यामशुभापहाभ्याम्
अशेषलोकैकविशेषिताभ्याम् .
अकुण्ठिताभ्याम् स्मृतिसंभृताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ८..
नमः शिवाभ्यां रथवाहनाभ्याम्
रवीन्दुवैश्वानरलोचनाभ्याम् .
राकाशशाङ्काभमुखाम्बुजाभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ९..
नमः शिवाभ्यां जटिलन्धरभ्याम्
जरामृतिभ्यां च विवर्जिताभ्याम् .
जनार्दनाब्जोद्भवपूजिताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. १०..
नमः शिवाभ्यां विषमेक्षणाभ्याम्
बिल्वच्छदामल्लिकदामभृद्भ्याम् .
शोभावती शान्तवतीश्वराभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ११..
नमः शिवाभ्यां पशुपालकाभ्याम्
जगत्रयीरक्षण बद्धहृद्भ्याम् .
समस्त देवासुरपूजिताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. १२..
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्
भक्त्या पठेद्द्वादशकं नरो यः .
स सर्वसौभाग्य फलानि भुङ्क्ते
शतायुरान्ते शिवलोकमेति .. १३..
इति उमामहेश्वरस्तोत्रं सम्पूर्णम् ..

||.. आर्यापञ्चदशीस्तोत्रम् ..||


करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् .
कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् .. १ ..
एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् .
शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् .. २ ..
ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् .
इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् .. ३ ..
लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् .
ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् .. ४ ..
ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये .
हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि .. ५ ..
हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये .
हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते .. ६ ..
सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे .
संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता .. ७ ..
कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये .
कान्ते कङ्कणहस्ते कम्बुग्रीवे नमोऽस्तु ते करुणे .. ८ ..
हरनयनानन्दकरे हराङ्कसंस्थे हरिप्रमुखवन्द्ये .
हरनटनसाक्षिभूते हरार्धदेहे नमोऽस्तु ते सुकृपे .. ९ ..
लक्ष्मीप्रदकरुणा या लक्ष्मीपतिमल्पमम्ब कर्तुमलम् .
लक्ष्यम् कुरु मां तस्या लावण्यामृततरङ्गमाले त्वम् .. १० ..
ह्रींकाररत्नगर्भे हेमाचलमन्दरस्तनोल्लसिते .
हेरम्बप्रियजननि हे वसुधे देहि मे क्षमां नित्यम् .. ११ ..
सत्संप्रदायविदिते सकलागमनिगमसारतत्त्वमयि .
सावित्र्यर्पय वदने सकलरसाश्रयसुवाक्सुधाधाराम् .. १२ ..
करकङ्कणमणिदिनमणिकरविकसितचरणकमलमकरन्दम् .
करुणापयोनिधे मे कामाक्षि स्वान्तषट्पदः पिबतु .. १३ ..
लसदिक्षुचापसुमशरलक्षितदोर्वल्लिवीर्यमभयेन .
लक्षाधिकदैत्यकुलं लवुपटवासं कृतं कथं चित्रम् .. १४ ..
ह्रींकारकेलिभवने हिमकरमौल्यङ्कमञ्जुपर्यङ्के .
हृदयसरोजे मे वस हृदयानन्दप्रबोधपरहंसि .. १५ ..
आर्यापञ्चदशीं तामार्यां यो भजति शुद्धधीर्नित्यम् .
भार्ये लक्ष्मीवाण्यौ पर्यातात् तस्य सादरं भवतः .. १६ ..
इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितमार्यापञ्चदशीस्तोत्रं संपूर्णम्

||.. श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः ..||

.. श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः ..
जय जय शङ्कर .
ॐ श्री ललिता महात्रिपुरसुन्दरी 
पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ..
.. अथ श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः ..
१ श्री आदिलक्ष्मी नामावलिः .. ॐ श्रीं
२ श्री धान्यलक्ष्मी नामावलिः .. ॐ श्रीं क्लीं
३ श्री धैर्यलक्ष्मी नामावलिः ..  ॐ श्रीं ह्रीं क्लीं
४ श्री गजलक्ष्मी नामावलिः .. ॐ श्रीं ह्रीं क्लीं
५ श्री सन्तानलक्ष्मी नामावलिः .. ॐ ह्रीं श्रीं क्लीं
६ श्री विजयलक्ष्मी नामावलिः .. ॐ क्लीं ॐ
७ श्री विद्यालक्ष्मी नामावलिः ..  ॐ ऐं ॐ
८ श्री ऐश्वर्यलक्ष्मी नामावलिः .. ॐ श्रीं श्रीं
श्रीं ॐ
१
.. श्री आदिलक्ष्मी नामावलिः ..
            ॐ श्रीं
आदिलक्ष्म्यै नमः
अकारायै नमः
अव्ययायै नमः
अच्युतायै नमः
आनन्दायै नमः
अर्चितायै नमः
अनुग्रहायै नमः
अमृतायै नमः
अनन्तायै नमः
इष्टप्राप्त्यै नमः
ईश्वर्यै नमः
कर्त्र्यै नमः
कान्तायै नमः
कलायै नमः
कल्याण्यै नमः
कपर्दिने नमः
कमलायै नमः
कान्तिवर्धिन्यै नमः
कुमार्यै नमः
कामाक्ष्यै नमः
कीर्तिलक्ष्म्यै नमः
गन्धिन्यै नमः
गजारूढायै नमः
गम्भीरवदनायै नमः
चक्रहासिन्यै नमः
चक्रायै नमः
ज्योतिलक्ष्म्यै नमः
जयलक्ष्म्यै नमः
ज्येष्ठायै नमः
जगज्जनन्यै नमः
जागृतायै नमः
त्रिगुणायै नमः
त्र्यैलोक्यमोहिन्यै नमः
त्र्यैलोक्यपूजितायै नमः
नानारूपिण्यै नमः
निखिलायै नमः
नारायण्यै नमः
पद्माक्ष्यै नमः
परमायै नमः
प्राणायै नमः
प्रधानायै नमः
प्राणशक्त्यै नमः
ब्रह्माण्यै नमः
भाग्यलक्ष्म्यै नमः
भूदेव्यै नमः
बहुरूपायै नमः
भद्रकाल्यै नमः
भीमायै नमः
भैरव्यै नमः
भोगलक्ष्म्यै नमः
भूलक्ष्म्यै नमः
महाश्रियै नमः
माधव्यै नमः
मात्रे नमः
महालक्ष्म्यै नमः
महावीरायै नमः
महाशक्त्यै नमः
मालाश्रियै नमः
राज्ञ्यै नमः
रमायै नमः
राज्यलक्ष्म्यै नमः
रमणीयायै नमः
लक्ष्म्यै नमः
लाक्षितायै नमः
लेखिन्यै नमः
विजयलक्ष्म्यै नमः
विश्वरूपिण्यै नमः
विश्वाश्रयायै नमः
विशालाक्ष्यै नमः
व्यापिन्यै नमः
वेदिन्यै नमः
वारिधये नमः
व्याघ्र्यै नमः
वाराह्यै नमः
वैनायक्यै नमः
वरारोहायै नमः
वैशारद्यै नमः
शुभायै नमः
शाकम्भर्यै नमः
श्रीकान्तायै नमः
कालायै नमः
शरण्यै नमः
श्रुतये नमः
स्वप्नदुर्गायैइ नमः
सुर्यचन्द्राग्निनेत्रत्रयायै नमः
सिम्हगायै नमः
सर्वदीपिकायै नमः
स्थिरायै नमः
सर्वसम्पत्तिरूपिण्यै नमः
स्वामिन्यै नमः
सितायै नमः
सूक्ष्मायै नमः
सर्वसम्पन्नायै नमः
हंसिन्यै नमः
हर्षप्रदायै नमः
हंसगायै नमः
हरिसूतायैइ नमः
हर्षप्राधान्यै नमः
हरित्पतये नमः
सर्वज्ञानायै नमः
सर्वजनन्यै नमः
मुखफलप्रदायै नमः
महारूपायै नमः
श्रीकर्यै नमः
श्रेयसे नमः
श्रीचक्रमध्यगायै नमः
श्रीकारिण्यै नमः
क्षमायै नमः  .. ॐ ..
२
.. श्री धान्यलक्ष्मी नामावलिः ..
        ॐ श्रीं क्लीं
धान्यलक्ष्म्यै नमः
आनन्दाकृत्यै नमः
अनिन्दितायै नमः
आद्यायै नमः
आचार्यायैइ नमः
अभयायै नमः
अशक्यायै नमः
अजयायै नमः
अजेयायै नमः
अमलायै नमः
अमृतायै नमः
अमरायै नमः
इन्द्राणीवरदायै नमः
इन्दीवरेश्वर्यै नमः
उरगेन्द्रशयनायैइ नमः
उत्केल्यै नमः
काश्मीरवासिन्यैइ नमः
कादम्बर्यै नमः
कलरवायै नमः
कुचमन्डलमन्डितायै नमः
कौशिक्यै नमः
कृतमालायै नमः
कौशाम्ब्यै नमः
कोशवर्धिन्यै नमः
खड्गधरायै नमः
खनये नमः
खस्थायै नमः
गीतायै नमः
गीतप्रियायै नमः
गीत्यै नमः
गायत्र्यै नमः
गौतम्यै नमः
चित्राभरणभूषितायै नमः
चाणूर्मदिन्यै नमः
चण्डायै नमः
चण्डहंत्र्यै नमः
चण्डिकायै नमः
गण्डक्यै नमः
गोमत्यै नमः
गाथायै नमः
तमोहन्त्र्यै नमः
त्रिशक्तिधृतेनमः
तपस्विन्यै नमः
जातवत्सलायै नमः
जगत्यै नमः
जंगमायै नमः
ज्येष्ठायै नमः
जन्मदायै नमः
ज्वलितद्युत्यै नमः
जगज्जीवायै नमः
जगद्वन्द्यायै नमः
धर्मिष्ठायै नमः
धर्मफलदायै नमः
ध्यानगम्यायै नमः
धारणायै नमः
धरण्यै नमः
धवलायै नमः
धर्माधारायै नमः
धनायै नमः
धारायै नमः
धनुर्धर्यै नमः
नाभसायै नमः
नासायै नमः
नूतनाङ्गायै नमः
नरकघ्न्यै नमः
नुत्यै नमः
नागपाशधरायै नमः
नित्यायै नमः
पर्वतनन्दिन्यै नमः
पतिव्रतायै नमः
पतिमय्यै नमः
प्रियायै नमः
प्रीतिमन्जर्यै नमः
पातालवासिन्यै नमः
पूर्त्यै नमः
पाञ्चाल्यै नमः
प्राणिनां प्रसवे नमः
पराशक्त्यै नमः
बलिमात्रे नमः
बृहद्धाम्न्यै नमः
बादरायणसम्स्तुतायै नमः
भयघ्न्यै नमः
भीमरूपायै नमः
बिल्वायै नमः
भूतस्थायै नमः
मखायै नमः
मातामह्यै नमः
महामात्रे नमः
मध्यमायै नमः
मानस्यै नमः
मनवे नमः
मेनकायै नमः
मुदायै नमः
यत्तत्पदनिबन्धिन्यै नमः
यशोदायै नमः
यादवायै नमः
यूत्यै नमः
रक्तदन्तिकायै नमः
रतिप्रियायै नमः
रतिकर्यै नमः
रक्तकेश्यै नमः
रणप्रियायै नमः
लंकायै नमः
लवणोदधये नमः
लंकेशहंत्र्यै नमः
लेखायै नमः
वरप्रदायै नमः
वामनायै नमः
वैदिक्यै नमः
विद्युते नमः
वारह्यै नमः
सुप्रभायै नमः
समिधे नमः  .. ॐ ..
३
.. अथ श्री धैर्यलक्ष्मी नामावलिः ..
             ॐ  श्रीं ह्रीं क्लीं
धैर्यलक्ष्म्यै नमः
अपूर्वायै नमः
अनाद्यायै नमः
अदिरीश्वर्यै नमः
अभीष्टायै नमः
आत्मरूपिण्यै नमः
अप्रमेयायै नमः
अरुणायै नमः
अलक्ष्यायै नमः
अद्वैतायै नमः
आदिलक्ष्म्यै नमः
ईशानवरदायै नमः
इन्दिरायै नमः
उन्नताकारायै नमः
उद्धटमदापहायै नमः
क्रुद्धायै नमः
कृशाङ्ग्यै नमः
कायवर्जितायै नमः
कामिन्यै नमः
कुन्तहस्तायै नमः
कुलविद्यायै नमः
कौलिक्यै नमः
काव्यशक्त्यै नमः
कलात्मिकायै नमः
खेचर्यै नमः
खेटकामदायै नमः
गोप्त्र्यै नमः
गुणाढ्यायै नमः
गवे नमः
चन्द्रायै नमः
चारवे नमः
चन्द्रप्रभायै नमः
चञ्चवे नमः
चतुराश्रमपूजितायै नमः
चित्यै नमः
गोस्वरूपायै नमः
गौतमाख्यमुनिस्तुतायै नमः
गानप्रियायै नमः
छद्मदैत्यविनाशिन्यै नमः
जयायै नमः
जयन्त्यै नमः
जयदायै नमः
जगत्त्रयहितैषिण्यै नमः
जातरूपायै नमः
ज्योत्स्नायै नमः
जनतायै नमः
तारायै नमः
त्रिपदायै नमः
तोमरायै नमः
तुष्ट्यै नमः
धनुर्धरायै नमः
धेनुकायै नमः
ध्वजिन्यै नमः
धीरायै नमः
धूलिध्वान्तहरायै नमः
ध्वनये नमः
ध्येयायै नमः
धन्यायै नमः
नौकायै नमः
नीलमेघसमप्रभायै नमः
नव्यायै नमः
नीलाम्बरायै नमः
नखज्वालायै नमः
नलिन्यै नमः
परात्मिकायै नमः
परापवादसंहर्त्र्यै नमः
पन्नगेन्द्रशयनायै नमः
पतगेन्द्रकृतासनायै नमः
पाकशासनायै नमः
परशुप्रियायै नमः
बलिप्रियायै नमः
बलदायै नमः
बालिकायै नमः
बालायै नमः
बदर्यै नमः
बलशालिन्यै नमः
बलभद्रप्रियायै नमः
बुद्ध्यै नमः
बाहुदायै नमः
मुख्यायै नमः
मोक्षदाअयै नमः
मीनरूपिण्यै नमः
यज्ञायै नमः
यज्ञाङ्गायै नमः
यज्ञकामदायै नमः
यज्ञरूपायै नमः
यज्ञकर्त्र्यै नमः
रमण्यै नमः
राममूर्त्यै नमः
रागिण्यै नमः
रागज्ञायै नमः
रागवल्लभायै नमः
रत्नगर्भायै नमः
रत्नखन्यै नमः
राक्षस्यै नमः
लक्षणाढ्यायै नमः
लोलार्कपरिपूजितायै नमः
वेत्रवत्यै नमः
विश्वेशायै नमः
वीरमात्रे नमः
वीरश्रियै नमः
वैष्णव्यै नमः
शुच्यै नमः
श्रद्धायै नमः
शोणाक्ष्यै नमः
शेषवन्दितायै नमः
शताक्षयै नमः
हतदानवायै नमः
हयग्रीवतनवे नमः .. ॐ ..
४
.. श्री गजलक्ष्मी नामावलिः ..
         ॐ श्रीं ह्रीं क्लीं
गजलक्ष्म्यै नमः
अनन्तशक्त्यै नमः
अज्ञेयायै नमः
अणुरूपायै नमः
अरुणाकृत्यै नमः
अवाच्यायै नमः
अनन्तरूपायै नमः
अम्बुदायै नमः
अम्बरसंस्थाङ्कायै नमः
अशेषस्वरभूषितायै नमः
इच्छायै नमः
इन्दीवरप्रभायै नमः
उमायै नमः
ऊर्वश्यै नमः
उदयप्रदायै नमः
कुशावर्तायै नमः
कामधेनवे नमः
कपिलायै नमः
कुलोद्भवायै नमः
कुङ्कुमाङ्कितदेहायै नमः
कुमार्यै नमः
कुङ्कुमारुणायै नमः
काशपुष्पप्रतीकाशायै नमः
खलापहायै नमः
खगमात्रे नमः
खगाकृत्यै नमः
गान्धर्वगीतकीर्त्यै नमः
गेयविद्याविशारदायै नमः
गम्भीरनाभ्यै नमः
गरिमायै नमः
चामर्यै नमः
चतुराननायै नमः
चतुःषष्टिश्रीतन्त्रपूजनीयायै नमः
चित्सुखायै नमः
चिन्त्यायै नमः
गम्भीरायै नमः
गेयायै नमः
गन्धर्वसेवितायै नमः
जरामृत्युविनाशिन्यै नमः
जैत्र्यै नमः
जीमूतसंकाशायै नमः
जीवनायै नमः
जीवनप्रदायै नमः
जितश्वासायै नमः
जितारातये नमः
जनित्र्यै नमः
तृप्त्यै नमः
त्रपायै नमः
तृषायै नमः
दक्षपूजितायै नमः
दीर्घकेश्यै नमः
दयालवे नमः
दनुजापहायै नमः
दारिद्र्यनाशिन्यै नमः
द्रवायै नमः
नीतिनिष्ठायै नमः
नाकगतिप्रदायै नमः
नागरूपायै नमः
नागवल्ल्यै नमः
प्रतिष्ठायै नमः
पीताम्बरायै नमः
परायै नमः
पुण्यप्रज्ञायै नमः
पयोष्ण्यै नमः
पम्पायै नमः
पद्मपयस्विन्यै नमः
पीवरायै नमः
भीमायै नमः
भवभयापहायै नमः
भीष्मायै नमः
भ्राजन्मणिग्रीवायै नमः
भ्रातृपूज्यायै नमः
भार्गव्यै नमः
भ्राजिष्णवे नमः
भानुकोटिसमप्रभायै नमः
मातङ्ग्यै नमः
मानदायै नमः
मात्रे नमः
मातृमण्डलवासिन्यै नमः
मायायै नमः
मायापुर्यै नमः
यशस्विन्यै नमः
योगगम्यायै नमः
योग्यायै नमः
रत्नकेयूरवलयायै नमः
रतिरागविवर्धिन्यै नमः
रोलम्बपूर्णमालायै नमः
रमणीयायै नमः
रमापत्यै नमः
लेख्यायै नमः
लावण्यभुवे नमः
लिप्यै नमः
लक्ष्मणायै नमः
वेदमात्रे नमः
वह्निस्वरूपधृषे नमः
वागुरायै नमः
वधुरूपायै नमः
वालिहंत्र्यै नमः
वराप्सरस्यै नमः
शाम्बर्यै नमः
शमन्यै नमः
शांत्यै नमः
सुन्दर्यै नमः
सीतायै नमः
सुभद्रायै नमः
क्षेमङ्कर्यै नमः
क्षित्यै नमः .. ॐ ..
५
.. श्री सन्तानलक्ष्मी नामावलिः ..
             ॐ ह्रीं श्रीं क्लीं
सन्तानलक्ष्म्यै नमः
असुरघ्न्यै नमः
अर्चितायै नमः
अमृतप्रसवे नमः
अकाररूपायै नमः
अयोध्यायै नमः
अश्विन्यै नमः
अमरवल्लभायै नमः
अखण्डितायुषे नमः
इन्दुनिभाननायै नमः
इज्यायै नमः
इन्द्रादिस्तुतायै नमः
उत्तमायै नमः
उत्कृष्टवर्णायै नमः
उर्व्यै नमः
कमलस्रग्धरायै नमः
कामवरदायै नमः
कमठाकृत्यै नमः
काञ्चीकलापरम्यायै नमः
कमलासनसम्स्तुतायै नमः
कम्बीजायै नमः
कौत्सवरदायै नमः
कामरूपनिवासिन्यै नमः
खड्गिन्यै नमः
गुणरूपायै नमः
गुणोद्धतायै नमः
गोपालरूपिण्यै नमः
गोप्त्र्यै नमः
गहनायै नमः
गोधनप्रदायै नमः
चित्स्वरूपायै नमः
चराचरायै नमः
चित्रिण्यै नमः
चित्रायै नमः
गुरुतमायै नमः
गम्यायै नमः
गोदायै नमः
गुरुसुतप्रदायै नमः
ताम्रपर्ण्यै नमः
तीर्थमय्यै नमः
तापस्यै नमः
तापसप्रियायै नमः
त्र्यैलोक्यपूजितायै नमः
जनमोहिन्यै नमः
जलमूर्त्यै नमः
जगद्बीजायै नमः
जनन्यै नमः
जन्मनाशिन्यै नमः
जगद्धात्र्यै नमः
जितेन्द्रियायै नमः
ज्योतिर्जायायै नमः
द्रौपद्यै नमः
देवमात्रे नमः
दुर्धर्षायै नमः
दीधितिप्रदायै नमः
दशाननहरायै नमः
डोलायै नमः
द्युत्यै नमः
दीप्तायै नमः
नुत्यै नमः
निषुम्भघ्न्यै नमः
नर्मदायै नमः
नक्षत्राख्यायै नमः
नन्दिन्यै नमः
पद्मिन्यै नमः
पद्मकोशाक्ष्यै नमः
पुण्डलीकवरप्रदायै नमः
पुराणपरमायै नमः
प्रीत्यै नमः
भालनेत्रायै नमः
भैरव्यै नमः
भूतिदायै नमः
भ्रामर्यै नमः
भ्रमायै नमः
भूर्भुवस्वः स्वरूपिण्यै नमः
मायायै नमः
मृगाक्ष्यै नमः
मोहहंत्र्यै नमः
मनस्विन्यै नमः
महेप्सितप्रदायै नमः
मात्रमदहृतायै नमः
मदिरेक्षणायै नमः
युद्धज्ञायै नमः
यदुवंशजायै नमः
यादवार्तिहरायै नमः
युक्तायै नमः
यक्षिण्यै नमः
यवनार्दिन्यै नमः
लक्ष्म्यै नमः
लावण्यरूपायै नमः
ललितायै नमः
लोललोचनायै नमः
लीलावत्यै नमः
लक्षरूपायै नमः
विमलायै नमः
वसवे नमः
व्यालरूपायै नमः
वैद्यविद्यायै नमः
वासिष्ठ्यै नमः
वीर्यदायिन्यै नमः
शबलायै नमः
शांतायै नमः
शक्तायै नमः
शोकविनाशिन्यै नमः
शत्रुमार्यै नमः
शत्रुरूपायै नमः
सरस्वत्यै नमः
सुश्रोण्यै नमः
सुमुख्यै नमः
हावभूम्यै नमः
हास्यप्रियायै नमः .. ॐ ..
६
.. श्री विजयलक्ष्मी नामावलिः ..
              ॐ क्लीं ॐ
विजयलक्ष्म्यै नमः
अम्बिकायै नमः
अम्बालिकायै नमः
अम्बुधिशयनायै नमः
अम्बुधये नमः
अन्तकघ्न्यै नमः
अन्तकर्त्र्यै नमः
अन्तिमायै नमः
अन्तकरूपिण्यै नमः
ईड्यायै नमः
इभास्यनुतायै नमः
ईशानप्रियायै नमः
ऊत्यै नमः
उद्यद्भानुकोटिप्रभायै नमः
उदाराङ्गायै नमः
केलिपरायै नमः
कलहायै नमः
कान्तलोचनायै नमः
काञ्च्यै नमः
कनकधारायै नमः
कल्यै नमः
कनककुण्डलायै नमः
खड्गहस्तायै नमः
खट्वाङ्गवरधारिण्यै नमः
खेटहस्तायै नमः
गन्धप्रियायै नमः
गोपसख्यै नमः
गारुड्यै नमः
गत्यै नमः
गोहितायै नमः
गोप्यायै नमः
चिदात्मिकायै नमः
चतुर्वर्गफलप्रदायै नमः
चतुराकृत्यै नमः
चकोराक्ष्यै नमः
चारुहासायै नमः
गोवर्धनधरायै नमः
गुर्व्यै नमः
गोकुलाभयदायिन्यै नमः
तपोयुक्तायै नमः
तपस्विकुलवन्दितायै नमः
तापहारिण्यै नमः
तार्क्षमात्रे नमः
जयायै नमः
जप्यायै नमः
जरायवे नमः
जवनायै नमः
जनन्यै नमः
जाम्बूनदविभूषायै नमः
दयानिध्यै नमः
ज्वालायै नमः
जम्भवधोद्यतायै नमः
दुःखहंत्र्यै नमः
दान्तायै नमः
द्रुतेष्टदायै नमः
दात्र्यै नमः
दीनर्तिशमनायै नमः
नीलायै नमः
नागेन्द्रपूजितायै नमः
नारसिम्ह्यै नमः
नन्दिनन्दायै नमः
नन्द्यावर्तप्रियायै नमः
निधये नमः
परमानन्दायै नमः
पद्महस्तायै नमः
पिकस्वरायै नमः
पुरुषार्थप्रदायै नमः
प्रौढायै नमः
प्राप्त्यै नमः
बलिसम्स्तुतायै नमः
बालेन्दुशेखरायै नमः
बन्द्यै नमः
बालग्रहविनाशन्यै नमः
ब्राह्म्यै नमः
बृहत्तमायै नमः
बाणायै नमः
ब्राह्मण्यै नमः
मधुस्रवायै नमः
मत्यै नमः
मेधायै नमः
मनीषायै नमः
मृत्युमारिकायै नमः
मृगत्वचे नमः
योगिजनप्रियायै नमः
योगाङ्गध्यानशीलायै नमः
यज्ञभुवे नमः
यज्ञवर्धिन्यै नमः
राकायै नमः
राकेन्दुवदनायै नमः
रम्यायै नमः
रणितनूपुरायै नमः
रक्षोघ्न्यै नमः
रतिदात्र्यै नमः
लतायै नमः
लीलायै नमः
लीलानरवपुषे नमः
लोलायै नमः
वरेण्यायै नमः
वसुधायै नमः
वीरायै नमः
वरिष्ठायै नमः
शातकुम्भमय्यै नमः
शक्त्यै नमः
श्यामायै नमः
शीलवत्यै नमः
शिवायै नमः
होरायै नमः
हयगायै नमः .. ॐ ..
७
.. श्री विद्यालक्ष्मी नामावलिः ..
              ऐं ॐ
विद्यालक्ष्म्यै नमः
वाग्देव्यै नमः
परदेव्यै नमः
निरवद्यायै नमः
पुस्तकहस्तायै नमः
ज्ञानमुद्रायै नमः
श्रीविद्यायै नमः
विद्यारूपायै नमः
शास्त्रनिरूपिण्यै नमः
त्रिकालज्ञानायै नमः
सरस्वत्यै नमः
महाविद्यायै नमः
वाणिश्रियै नमः
यशस्विन्यै नमः
विजयायै नमः
अक्षरायै नमः
वर्णायै नमः
पराविद्यायै नमः
कवितायै नमः
नित्यबुद्धायै नमः
निर्विकल्पायै नमः
निगमातीतायै नमः
निर्गुणरूपायै नमः
निष्कलरूपायै नमः
निर्मलायै नमः
निर्मलरूपायै नमः
निराकारायै नमः
निर्विकारायै नमः
नित्यशुद्धायै नमः
बुद्ध्यै नमः
मुक्त्यै नमः
नित्यायै नमः
निरहङ्कारायै नमः
निरातङ्कायै नमः
निष्कलङ्कायै नमः
निष्कारिण्यै नमः
निखिलकारणायै नमः
निरीश्वरायै नमः
नित्यज्ञानायै नमः
निखिलाण्डेश्वर्यै नमः
निखिलवेद्यायै नमः
गुणदेव्यै नमः
सुगुणदेव्यै नमः
सर्वसाक्षिण्यै नमः
सच्चिदानन्दायै नमः
सज्जनपूजितायै नमः
सकलदेव्यै नमः
मोहिन्यै नमः
मोहवर्जितायै नमः
मोहनाशिन्यै नमः
शोकायै नमः
शोकनाशिन्यै नमः
कालायै नमः
कालातीतायै नमः
कालप्रतीतायै नमः
अखिलायै नमः
अखिलनिदानायै नमः
अजरामरायै नमः
अजहितकारिण्यै नमः
त्रिग़ुणायै नमः
त्रिमूर्त्यै नमः
भेदविहीनायै नमः
भेदकारणायै नमः
शब्दायै नमः
शब्दभण्डारायै नमः
शब्दकारिण्यै नमः
स्पर्शायै नमः
स्पर्शविहीनायै नमः
रूपायै नमः
रूपविहीनायै नमः
रूपकारणायै नमः
रसगन्धिन्यै नमः
रसविहीनायै नमः
सर्वव्यापिन्यै नमः
मायारूपिण्यै नमः
प्रणवलक्ष्म्यै नमः
मात्रे नमः
मातृस्वरूपिण्यै नमः
ह्रीङ्कार्यै
ॐकार्यै नमः
शब्दशरीरायै नमः
भाषायै नमः
भाषारूपायै नमः
गायत्र्यै नमः
विश्वायै नमः
विश्वरूपायै नमः
तैजसे नमः
प्राज्ञायै नमः
सर्वशक्त्यै नमः
विद्याविद्यायै नमः
विदुषायै नमः
मुनिगणार्चितायै नमः
ध्यानायै नमः
हंसवाहिन्यै नमः
हसितवदनायै नमः
मन्दस्मितायै नमः
अम्बुजवासिन्यै नमः
मयूरायै नमः
पद्महस्तायै नमः
गुरुजनवन्दितायै नमः
सुहासिन्यै नमः
मङ्गलायै नमः
वीणापुस्तकधारिण्यै नमः .. ॐ ..
८
.. श्री ऐश्वर्यलक्ष्मी नामावलिः ..
              श्रीं श्रीं श्रीं ॐ
ऐश्वर्यलक्ष्म्यै नमः
अनघायै नमः
अलिराज्यै नमः
अहस्करायै नमः
अमयघ्न्यै नमः
अलकायै नमः
अनेकायै नमः
अहल्यायै नमः
आदिरक्षणायै नमः
इष्टेष्टदायै नमः
इन्द्राण्यै नमः
ईशेशान्यै नमः
इन्द्रमोहिन्यै नमः
उरुशक्त्यै नमः
उरुप्रदायै नमः
ऊर्ध्वकेश्यै नमः
कालमार्यै नमः
कालिकायै नमः
किरणायै नमः
कल्पलतिकायै नमः
कल्पस्ंख्यायै नमः
कुमुद्वत्यै नमः
काश्यप्यै नमः
कुतुकायै नमः
खरदूषणहंत्र्यै नमः
खगरूपिण्यै नमः
गुरवे नमः
गुणाध्यक्षायै नमः
गुणवत्यै नमः
गोपीचन्दनचर्चितायै नमः
हङ्गायै नमः
चक्षुषे नमः
चन्द्रभागायै नमः
चपलायै नमः
चलत्कुण्डलायै नमः
चतुःषष्टिकलाज्ञानदायिन्यै नमः
चाक्षुषी मनवे नमः
चर्मण्वत्यै नमः
चन्द्रिकायै नमः
गिरये नमः
गोपिकायै नमः
जनेष्टदायै नमः
जीर्णायै नमः
जिनमात्रे नमः
जन्यायै नमः
जनकनन्दिन्यै नमः
जालन्धरहरायै नमः
तपःसिद्ध्यै नमः
तपोनिष्ठायै नमः
तृप्तायै नमः
तापितदानवायै नमः
दरपाणये नमः
द्रग्दिव्यायै नमः
दिशायै नमः
दमितेन्द्रियायै नमः
दृकायै नमः
दक्षिणायै नमः
दीक्षितायै नमः
निधिपुरस्थायै नमः
न्यायश्रियै नमः
न्यायकोविदायै नमः
नाभिस्तुतायै नमः
नयवत्यै नमः
नरकार्तिहरायै नमः
फणिमात्रे नमः
फलदायै नमः
फलभुजे नमः
फेनदैत्यहृते नमः
फुलाम्बुजासनायै नमः
फुल्लायै नमः
फुल्लपद्मकरायै नमः
भीमनन्दिन्यै नमः
भूत्यै नमः
भवान्यै नमः
भयदायै नमः
भीषणायै नमः
भवभीषणायै नमः
भूपतिस्तुतायै नमः
श्रीपतिस्तुतायै नमः
भूधरधरायै नमः
भुतावेशनिवासिन्यै नमः
मधुघ्न्यै नमः
मधुरायै नमः
माधव्यै नमः
योगिन्यै नमः
यामलायै नमः
यतये नमः
यन्त्रोद्धारवत्यै नमः
रजनीप्रियायै नमः
रात्र्यै नमः
राजीवनेत्रायै नमः
रणभूम्यै नमः
रणस्थिरायै नमः
वषट्कृत्यै नमः
वनमालाधरायै नमः
व्याप्त्यै नमः
विख्यातायै नमः
शरधन्वधरायै नमः
श्रितये नमः
शरदिन्दुप्रभायै नमः
शिक्षायै नमः
शतघ्न्यै नमः
शांतिदायिन्यै नमः
ह्रीं बीजायै नमः
हरवन्दितायै नमः
हालाहलधरायै नमः
हयघ्न्यै नमः
हंसवाहिन्यै नमः .. ॐ ..
.. अथ श्री महालक्ष्म्याः रहस्य नामावलिः ..
         श्रीं ह्रीं क्लीं
महालक्ष्म्यै नमः
मन्त्रलक्ष्म्यै नमः
मायालक्ष्म्यै नमः
मतिप्रदायै नमः
मेधालक्ष्म्यै नमः
मोक्षलक्ष्म्यै नमः
महीप्रदायै नमः
वित्तलक्ष्म्यै नमः
मित्रलक्ष्म्यै नमः
मधुलक्ष्म्यै नमः
कान्तिलक्ष्म्यै नमः
कार्यलक्ष्म्यै नमः
कीर्तिलक्ष्म्यै नमः
करप्रदायै नमः
कन्यालक्ष्म्यै नमः
कोशलक्ष्म्यै नमः
काव्यलक्ष्म्यै नमः
कलाप्रदायै  नमः
गजलक्ष्म्यै नमः
गन्धलक्ष्म्यै नमः
गृहलक्ष्म्यै नमः
गुणप्रदायै नमः
जयलक्ष्म्यै नमः
जीवलक्ष्म्यै नमः
जयप्रदायै नमः
दानलक्ष्म्यै नमः
दिव्यलक्ष्म्यै नमः
द्वीपलक्ष्म्यै नमः
दयाप्रदायै नमः
धनलक्ष्म्यै नमः
धेनुलक्ष्म्यै नमः
धनप्रदायै नमः
धर्मलक्ष्म्यै नमः
धैर्यलक्ष्म्यै नमः
द्रव्यलक्ष्म्यै नमः
धृतिप्रदायै नमः
नभोलक्ष्म्यै नमः
नादलक्ष्म्यै नमः
नेत्रलक्ष्म्यै नमः
नयप्रदायै नमः
नाट्यलक्ष्म्यै नमः
नीतिलक्ष्म्यै नमः
नित्यलक्ष्म्यै नमः
निधिप्रदायै नमः
पूर्णलक्ष्म्यै नमः
पुष्पलक्ष्म्यै नमः
पशुप्रदायै नमः
पुष्टिलक्ष्म्यै नमः
पद्मलक्ष्म्यै नमः
पूतलक्ष्म्यै नमः
प्रजाप्रदायै नमः
प्राणलक्ष्म्यै नमः
प्रभालक्ष्म्यै नमः
प्रज्ञालक्ष्म्यै नमः
फलप्रदायै नमः
बुधलक्ष्म्यै नमः
बुद्धिलक्ष्म्यै नमः
बललक्ष्म्यै नमः
बहुप्रदायै नमः
भाग्यलक्ष्म्यै नमः
भोगलक्ष्म्यै नमः
भुजलक्ष्म्यै नमः
भक्तिप्रदायै नमः
भावलक्ष्म्यै नमः
भीमलक्ष्म्यै नमः
भूर्लक्ष्म्यै नमः
भूषणप्रदायै नमः
रूपलक्ष्म्यै नमः
राज्यलक्ष्म्यै नमः
राजलक्ष्म्यै नमः
रमाप्रदायै नमः
वीरलक्ष्म्यै नमः
वार्धिकलक्ष्म्यै नमः
विद्यालक्ष्म्यै नमः
वरलक्ष्म्यै नमः
वर्षलक्ष्म्यै नमः
वनलक्ष्म्यै नमः
वधूप्रदायै नमः
वर्णलक्ष्म्यै नमः
वश्यलक्ष्म्यै नमः
वाग्लक्ष्म्यै नमः
वैभवप्रदायै नमः
शौर्यलक्ष्म्यै नमः
शांतिलक्ष्म्यै नमः
शक्तिलक्ष्म्यै नमः
शुभप्रदायै नमः
श्रुतिलक्ष्म्यै नमः
शास्त्रलक्ष्म्यै नमः
श्रीलक्ष्म्यै नमः
शोभनप्रदायै नमः
स्थिरलक्ष्म्यै नमः
सिद्धिलक्ष्म्यै नमः
सत्यलक्ष्म्यै नमः
सुधाप्रदायै नमः
सैन्यलक्ष्म्यै नमः
सामलक्ष्म्यै नमः
सस्यलक्ष्म्यै नमः
सुतप्रदायै नमः
साम्राज्यलक्ष्म्यै नमः
सल्लक्ष्म्यै नमः
ह्रीलक्ष्म्यै नमः
आढ्यलक्ष्म्यै नमः
आयुर्लक्ष्म्यै नमः
आरोग्यदायै नमः
श्री महालक्ष्म्यै नमः .. ॐ ..
.. अथ श्री क्षिप्र फलप्रद धनलक्ष्मी स्तोत्र ..
नमः सर्व स्वरूपे च नमो कल्याणदायिके .
महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ..
महाभोगप्रदे देवि महाकामप्रपूरिते .
सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते ..
ब्रह्मरूपे सदानन्दे सच्चिदानन्दरूपिणी .
धृतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ..
उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले .
शिवतत्वप्रदे देवि धनदायै नमोऽस्तुते  ..
शिवरूपे शिवानन्दे कारणानन्दविग्रहे .
विश्वसंहाररूपे च धनदायै नमोऽस्तुते ..
पञ्चतत्वस्वरूपे च पञ्चाचारसदारते .
साधकाभीष्टदे देवि धनदायै नमोऽस्तुते  .. 
श्रीं ॐ ..
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका .
समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ..
जय जय शङ्कर हर हर शङ्कर ..

||.. अष्टलक्ष्मी स्तोत्रम् ..||


   .. आदिलक्ष्मी ..
सुमनसवन्दित सुन्दरि माधवि
     चन्द्र सहोदरि हेममये .
मुनिगणमण्डित मोक्षप्रदायिनि
     मञ्जुळभाषिणि वेदनुते ..
पङ्कजवासिनि देवसुपूजित
     सद्गुणवर्षिणि शान्तियुते .
जयजय हे मधुसूदन कामिनि
     आदिलक्ष्मि सदा पालय माम् .. १..

   .. धान्यलक्ष्मी ..
अहिकलि कल्मषनाशिनि कामिनि
     वैदिकरूपिणि वेदमये .
क्षीरसमुद्भव मङ्गलरूपिणि
     मन्त्रनिवासिनि मन्त्रनुते ..
मङ्गलदायिनि अम्बुजवासिनि
     देवगणाश्रित पादयुते .
जयजय हे मधुसूदन कामिनि
     धान्यलक्ष्मि सदा पालय माम् .. २..

  .. धैर्यलक्ष्मी ..
जयवरवर्णिनि वैष्णवि भार्गवि
     मन्त्रस्वरूपिणि मन्त्रमये .
सुरगणपूजित शीघ्रफलप्रद
     ज्ञानविकासिनि शास्त्रनुते ..
भवभयहारिणि पापविमोचनि
     साधुजनाश्रित पादयुते .
जयजय हे मधुसूदन कामिनि
     धैर्यलक्ष्मि सदा पालय माम् .. ३..

   .. गजलक्ष्मी ..
जयजय दुर्गतिनाशिनि कामिनि
     सर्वफलप्रद शास्त्रमये .
रथगज तुरगपदादि समावृत
     परिजनमण्डित लोकनुते ..
हरिहर ब्रह्म सुपूजित सेवित
     तापनिवारिणि पादयुते .
जयजय हे मधुसूदन कामिनि
     गजलक्ष्मि रूपेण पालय माम् .. ४..

   .. सन्तानलक्ष्मी ..
अहिखग वाहिनि मोहिनि चक्रिणि
     रागविवर्धिनि ज्ञानमये .
गुणगणवारिधि लोकहितैषिणि
     स्वरसप्त भूषित गाननुते ..
सकल सुरासुर देवमुनीश्वर
     मानववन्दित पादयुते .
जयजय हे मधुसूदन कामिनि
     सन्तानलक्ष्मि त्वं पालय माम् .. ५..

   .. विजयलक्ष्मी ..
जय कमलासनि सद्गतिदायिनि
     ज्ञानविकासिनि गानमये .
अनुदिनमर्चित कुङ्कुमधूसर- 
     भूषित वासित वाद्यनुते ..
कनकधरास्तुति वैभव वन्दित
     शङ्कर देशिक मान्य पदे .
जयजय हे मधुसूदन कामिनि
     विजयलक्ष्मि सदा पालय माम् .. ६..

   .. विद्यालक्ष्मी ..
प्रणत सुरेश्वरि भारति भार्गवि
     शोकविनाशिनि रत्नमये .
मणिमयभूषित कर्णविभूषण
     शान्तिसमावृत हास्यमुखे ..
नवनिधिदायिनि कलिमलहारिणि
     कामित फलप्रद हस्तयुते .
जयजय हे मधुसूदन कामिनि
     विद्यालक्ष्मि सदा पालय माम् ..७..

   .. धनलक्ष्मी ..
धिमिधिमि धिंधिमि धिंधिमि धिंधिमि
     दुन्दुभि नाद सुपूर्णमये .
घुमघुम घुंघुम घुंघुम घुंघुम
    शङ्खनिनाद सुवाद्यनुते ..
वेदपुराणेतिहास सुपूजित
     वैदिकमार्ग प्रदर्शयुते .
जयजय हे मधुसूदन कामिनि
     धनलक्ष्मि रूपेण पालय माम् .. ८..

अर्धनारीश्वरस्तोत्रम् श्रीमच्छंकरभगवतः कृत

.. अर्धनारीश्वरस्तोत्रम् ..
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय .
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय .. १ ..
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय .
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय .. २ ..
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय .
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय .. ३ ..
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय .
समेक्षणयै विषमेक्षणाय नमः शिवायै च नमः शिवाय .. ४ ..
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय .
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय .. ५ ..
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय .
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय .. ६ ..
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय .
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय .. ७ ..
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय .
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय .. ८ ..
एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी .
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः .. ९ ..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ..

||.. अर्धनारीश्वराष्टकम् ..||


.. 

अंभोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय |
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय || १||

प्रदीप्तरत्नोज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय |
शिवप्रियायै च शिवप्रियाय
नमः शिवायै च नमः शिवाय || २||

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धरायै |
दिव्याम्बरायै च दिगम्बराय 
नमः शिवायै च नमः शिवाय || ३||

कस्तूरिकाकुङ्कुमलेपनायै
श्मशानभस्मात्तविलेपनाय |
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय || ४||

पादारविन्दार्पितहंसकायै
पादाब्जराजत्फणिनूपुराय |
कलामयायै विकलामयाय
नमः शिवायै च नमः शिवाय || ५||

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय |
समेक्षणायै विषमेक्षणाय 
नमः शिवायै च नमः शिवाय || ६||

प्रफुल्लनीलोत्पललोचनायै
विकासपङ्केरुहलोचनाय |
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय || ७||

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये
पुरश्च पश्चाच्च विदिक्षु दिक्षु |
सर्वं गतायै सकलं गताय 
नमः शिवायै च नमः शिवाय || ८||

अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् |
यः पठेच्छृणुयाद्वापि शिवलोके महीयते || ९||

|| इति उपमन्युकृतं अर्धनारीश्वराष्टकम् ||

||.. अर्गलास्तोत्रम् ..||



             .. श्री..
        श्रीचण्डिकाध्यानम्
ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् .
स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम्  ..
त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् .
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात्  ..
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् .
अथवा
या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी .
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी  ..
          अथ अर्गलास्तोत्रम्
          ॐ नमश्वण्डिकायै
मार्कण्डेय उवाच .
ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि .
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते  .. १..
जयन्ती मङ्गला काली भद्रकाली कपालिनी .
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते  .. २..
मधुकैटभविध्वंसि विधातृवरदे नमः .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ३..
महिषासुरनिर्नाशि भक्तानां सुखदे नमः .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ४..
धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ५..
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ६..
निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ७..
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ८..
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ९..
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १०..
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ११..
चण्डिके सततं युद्धे जयन्ति पापनाशिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १२..
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १३..
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १४..
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १५..
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १६..
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १७..
देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १८..
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १९..
चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २०..
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २१..
हिमाचलसुतानाथसंस्तुते परमेश्वरि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २२..
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २३..
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २४..
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २५..
तारिणि दुर्गसंसारसागरस्याचलोद्भवे .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २६..
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः .
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम्  .. २७..
.. इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ..

||.. अम्बास्तोत्रम् ..||


 .. अम्बास्तोत्रम् - स्वामी विवेकानन्द..

           .. अम्बास्तोत्रम् ..

का त्वं शुभकरे सुखदुःखहस्ते
      आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः .
शांतिं विधातुमिह किं बहुधा विभग्नाम्
      मतः प्रयत्नपरमासि सदैव विश्वे ..
संपादयत्यविरतं त्वविरामवृता
      या वै स्थिता कृतफलं त्वकृतस्य नेत्री .
सा मे भवत्वनिदिनं वरदा भवानी
      जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ..
को वा धर्मः किमकृतं क्वः कपाललेखः
      किंवादृष्टं फलमिहास्ति हि यां विना भोः .
इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः
      यस्या नेत्री भवति सा शरणं ममाद्या ..
सन्तानयन्ति जलधिं जनिमृत्युजालम्
      संभावयन्त्यविकृतं विकृतं विभग्नम् .
यस्या विभूतय इहामितशक्तिपालाः
      नाश्रित्य तां वद कुत शरणं व्रजामः ..
मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्
      स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः .
मृत्युच्छाया तव दया त्वमृतञ्च मातः
      मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ..
क्वांबा सर्वा क्व गणनं मम हीनबुद्धेः
      धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् .
श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम्
      सेवासारैरभिनुतं शरणं प्रपद्ये ..
या मामा जन्म विनयत्यतिदुःखमार्गैः
      आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः .
या मे बुद्धिं सुविदधे सततं धरण्यम्
      सांबा सर्वा मम गतिः सफले फले वा ..

||.. अपराधक्षमापणस्तोत्रम् ..||


ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः  .. १..
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु  .. २..
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि  .. ३..
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि  .. ४..
सर्वरूपमयी देवी सर्वं देवीमयं जगत् .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम्  .. ५..
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि  .. ६..
 यदत्र पाठे जगदम्बिके मया
      विसर्गबिन्द्वक्षरहीनमीरितम् .
 तदस्तु सम्पूर्णतमं प्रसादतः
      सङ्कल्पसिद्धिश्व सदैव जायताम्  .. ७..
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं  प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं  ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद  .. ८..
 प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले .
 प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते  .. ९..
   .. इति अपराधक्षमापणस्तोत्रं समाप्तम्..

||.. अघनाशकगायत्रीस्तोत्र ..||

.. अघनाशकगायत्रीस्तोत्र ..
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि |
सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते ||
त्वमेव संध्या गायत्री सावित्रि च सरस्वती |
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ||
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः |
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ||
हंसस्था गरुडारूढा तथा वृषभवाहिनी |
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ||
यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते |
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ||
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी |
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ||
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा |
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ||
आनन्दजननी दुर्गा दशधा परिपठ्यते |
वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ||
गरिष्ठा च वराही च वरारोहा च सप्तमी |
नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ||
भागीरथी मर्त्यलोके पाताले भोगवत्यपि ||
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ||
भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी |
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ||
महर्लोके महासिद्धिर्जनलोके जनेत्यपि |
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ||
कमला विष्णुलोके च गायत्री ब्रह्मलोकगा |
रुद्रलोके स्थिता गौरी हरार्धांगीनिवासिनी ||
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे |
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ||
ततः परापरा शक्तिः परमा त्वं हि गीयसे |
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ||
गंगा च यमुना चैव विपाशा च सरस्वती |
सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ||
गोदावरी शतद्रुश्च कावेरी देवलोकगा |
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ||
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि |
इडा च पिंगला चैव सुषुम्णा च तृतीयका ||
गांधारी हस्तिजिह्वा च पूषापूषा तथैव च |
अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी ||
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः |
हृतपद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ||
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी |
मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ||
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी |
किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये ||
तत्सर्वं त्वं महादेवि श्रिये संध्ये नमोऽस्तु ते |
इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् ||
महापापप्रशमनं महासिद्धिविधायकम् |
य इदं कीर्तयेत् स्तोत्रं संध्याकाले समाहितः ||
अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् |
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ||
भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् |
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ||
यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् |
लभते नात्र संदेहः सत्यं च नारद ||
श्रृणुयाद्योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते |
पीयूषसदृशं वाक्यं संध्योक्तं नारदेरितम् ||
|| इति श्रीअघनाशक गायत्री स्तोत्रं सम्पूर्णम् ||

|| शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं .||



.. श्री महागणेश पञ्चरत्नं ..

shrii mahaagaNesha paJNcharatnaM

Send corrections to Giridhar mgiridhar@ucdavis.edu


मुदा करात्त मोदकं सदा विमुक्ति साधकं
कलाधरावतंसकं विलासि लोक रक्षकम् .
अनायकैक नायकं विनाशितेभ दैत्यकं
नताशुभाशु नाशकं नमामि तं विनायकम् .. १..

नतेतराति भीकरं नवोदितार्क भास्वरं
नमत् सुरारि निर्जरं नताधिकापदुद्धरम् .
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् .. २..

समस्त लोक शंकरं निरास्त दैत्य कुन्जरं
दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् .
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् .. ३..

अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं
पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् .
प्रपञ्चनाश भीषणं धनंजयादि भूषणं
कपोलदानवारणं भजे पुराणवारणम् .. ४..

नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् .
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेकमेव चिन्तयामि सन्ततम् .. ५..

.. फल श्रुती ..

महागणेश पञ्चरत्नं आदरेण योन्ऽवहं
प्रजल्पति प्रभातके हृदि स्मरन्ं गणेश्वरम् .
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ..



.. इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ..

||.. महागणपति सहस्रनाम स्तोत्रम् ..||


. मुनिरुवाच .
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् .
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर .. १..
. ब्रह्मोवाच .
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे .
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल .. २..
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् .
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि .. ३..
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् .
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् .. ४..
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् .
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् .. ५..
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य .
गणेश ऋषिः .
महागणपतिर्देवता .
नानाविधानिच्छन्दांसि .
हुमिति बीजम् .
तुङ्गमिति शक्तिः .
स्वाहाशक्तिरिति कीलकम् .
. अथ करन्यासः .
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः .
कुमारगुरुरीशान इति तर्जनीभ्यां नमः .. १..
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः .
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः .. २..
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः .
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ..
३..
. अथ हृदयादिन्यासः .
छन्दश्छन्दोद्भव इति हृदयाय नमः .
निष्कलो निर्मल इति शिरसे स्वाहा .
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् .
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् .
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् .
अनन्तशक्तिसहित इत्यस्त्राय फट् .
भूर्भुवः स्वरोम् इति दिग्बन्धः .
. अथ ध्यानम् .
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् .
अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं
विघ्नराजं नमामि सकलविघ्नविनाशनद्वारा .. १..
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः .
. श्रीगणपतिरुवाच .
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः .
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः .. १..
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः .
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः .. २..
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः .
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः .. ३..
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः .
विनायको विरूपाक्षो वीरः शूरवरप्रदः .. ४..
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः .
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः .. ५..
कुमारगुरुरीशानपुत्रो मूषकवाहनः .
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः .. ६..
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः .
कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः .. ७..
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः .
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः .. ८..
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः .
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः .. ९..
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः .
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः .. १०..
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् .
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः .. ११..
किरीटी कुण्डली हारी वनमाली मनोमयः .
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः .. १२..
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् .
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः .. १३..
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः .
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः .. १४..
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः .
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः .. १५..
गणाधिराजो विजयः स्थिरो गजपतिध्वजी .
देवदेवः स्मरः प्राणदीपको वायुकीलकः .. १६..
विपश्चिद्वरदो नादो नादभिन्नमहाचलः .
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः .. १७..
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः .
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः .. १८..
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः .
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः .. १९..
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः .
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः .. २०..
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः .
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् .. २१..
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः .
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः .. २२..
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः .
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः .. २३..
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः .
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः .. २४..
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः .
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः .. २५..
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः .
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः .. २६..
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः .
सद्भक्तध्याननिगडः पूजावारिनिवारितः .. २७..
प्रतापी काश्यपो मन्ता गणको विष्टपी बली .
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः .. २८..
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः .
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः .. २९..
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः .
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः .. ३०..
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः .
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः .. ३१..
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः .
लिपिपद्मासनाधारो वह्निधामत्रयालयः .. ३२..
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः .
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः .. ३३..
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः .
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः .. ३४..
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः .
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः .. ३५..
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः .
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् .. ३६..
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः .
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः .. ३७..
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः .
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः .. ३८..
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः .
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः .. ३९..
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः .
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः .. ४०..
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् .
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः .. ४१..
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः .. ४२..
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् .
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् .. ४३..
कल्पवल्लीधरो विश्वाभयदैककरो वशी .
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः .. ४४..
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः .
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् .. ४५..
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः .
भारतीसुन्दरीनाथो विनायकरतिप्रियः .. ४६..
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः .
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः .. ४७..
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः .
आमोदमोदजननः सप्रमोदप्रमोदनः .. ४८..
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः .
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः .. ४९..
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः .
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः .. ५०..
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः .
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् .. ५१..
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः .
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः .. ५२..
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः .
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः .. ५३..
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः .
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः .. ५४..
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् .
ऐरावतादिसर्वाशावारणो वारणप्रियः .. ५५..
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः .
जयाजयपरिकरो विजयाविजयावहः .. ५६..
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः .
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः .. ५७..
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः .
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः .. ५८..
सुभगासंश्रितपदो ललिताललिताश्रयः .
कामिनीपालनः कामकामिनीकेलिलालितः .. ५९..
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः .
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः .. ६०..
नलिनीकामुको वामारामो ज्येष्ठामनोरमः .
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः .. ६१..
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः .
अमृताब्धिकृतावासो मदघूर्णितलोचनः .. ६२..
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः .
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः .. ६३..
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः .
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः .. ६४..
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः .
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः .. ६५..
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः .
आधारपीठमाधार आधाराधेयवर्जितः .. ६६..
आखुकेतन आशापूरक आखुमहारथः .
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः .. ६७..
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः .
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः .. ६८..
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः .
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः .. ६९..
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः .
ईशानमौलिरीशान ईशानप्रिय ईतिहा .. ७०..
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः .
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः .. ७१..
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः .
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः .. ७२..
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः .
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः .. ७३..
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् .
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः .. ७४..
एकारपीठमध्यस्थ एकपादकृतासनः .
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः .. ७५..
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः .
ऐरंमदसमोन्मेष ऐरावतसमाननः .. ७६..
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः .
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः .. ७७..
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः .
अः समस्तविसर्गान्तपदेषु परिकीर्तितः .. ७८..
कमण्डलुधरः कल्पः कपर्दी कलभाननः .
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः .. ७९..
कदम्बगोलकाकारः कूष्माण्डगणनायकः .
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् .. ८०..
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः .
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः .. ८१..
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः .
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः .. ८२..
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः .
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः .. ८३..
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः .
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् .. ८४..
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः .
चराचरपिता चिन्तामणिश्चर्वणलालसः .. ८५..
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः .
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः .. ८६..
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः .
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः .. ८७..
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः .
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः .. ८८..
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः .
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः .. ८९..
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः .
तारकान्तरसंस्थानस्तारकस्तारकान्तकः .. ९०..
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् .
दक्षयज्ञप्रमथनो दाता दानं दमो दया .. ९१..
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः .
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः .. ९२..
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः .
धनं धनपतेर्बन्धुर्धनदो धरणीधरः .. ९३..
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः .
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः .. ९४..
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः .
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः .. ९५..
परं व्योम परं धाम परमात्मा परं पदम् .. ९६..
परात्परः पशुपतिः पशुपाशविमोचनः .
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः .. ९७..
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः .
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः .. ९८..
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः .
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली .
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः .. ९९..
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः .
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः .. १००..
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः .
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः .. १०१..
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः .
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः .. १०२..
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः .
महाबलो महावीर्यो महाप्राणो महामनाः .. १०३..
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः .
यशस्करो योगगम्यो याज्ञिको याजकप्रियः .. १०४..
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः .
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः .. १०५..
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः .
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः .. १०६..
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः .
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः .. १०७..
वामदेवो विश्वनेता वज्रिवज्रनिवारणः .
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः .. १०८..
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः .
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः .. १०९..
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः .
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् .. ११०..
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः .
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः .. १११..
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः .
स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखी .. ११२..
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् .
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः .. ११३..
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः .
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः .. ११४..
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः .
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः .. ११५..
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः .
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः .. ११६..
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः .
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः .. ११७..
पराभिचारशमनो दुःखहा बन्धमोक्षदः .
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः .. ११८..
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् .
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः .. ११९..
राशिस्तारा तिथिर्योगो वारः करणमंशकम् .
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः .. १२०..
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः .
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् .. १२१..
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् .
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः .. १२२..
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः .
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः .. १२३..
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः .
सांख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः .. १२४..
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः .
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् .. १२५..
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् .
शैवं पाशुपतं कालामुखंभैरवशासनम् .. १२६..
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता .
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् .. १२७..
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् .
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः ..
१२८..
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः .
एक एकाक्षराधार एकाक्षरपरायणः .. १२९..
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् .
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः .. १३०..
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः .
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः .. १३१..
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः .
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः .. १३२..
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः .
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः .
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः .. १३३..
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः .. १३४..
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः .
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः .. १३५..
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः .
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः .. १३६..
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः .
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः .. १३७..
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः .
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः .. १३८..
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः .
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः .. १३९..
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः .
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः .. १४०..
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः .
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः .. १४१..
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः .
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् .. १४२..
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः .
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः .. १४३..
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः .
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् .. १४४..
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः .
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः .
नवनागासनाध्यासी नवनिध्यनुशासितः .. १४५..
नवद्वारपुरावृत्तो नवद्वारनिकेतनः .
नवनाथमहानाथो नवनागविभूषितः .. १४६..
नवनारायणस्तुल्यो नवदुर्गानिषेवितः .
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः .. १४७..
दशात्मको दशभुजो दशदिक्पतिवन्दितः .
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः .. १४८..
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः .
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः .. १४९..
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः .
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् .. १५०..
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः .
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः .. १५१..
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः .
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः .. १५२..
षोडशाधारनिलयः षोडशस्वरमातृकः .
षोडशान्तपदावासः षोडशेन्दुकलात्मकः .. १५३..
कलासप्तदशी सप्तदशसप्तदशाक्षरः .
अष्टादशद्वीपपतिरष्टादशपुराणकृत् .. १५४..
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः .
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः .. १५५..
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् .
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः .. १५६..
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः .
सप्तविंशतितारेशः सप्तविंशतियोगकृत् .. १५७..
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः .
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः .. १५८..
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः .
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः .
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः .. १५९..
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः .
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः .. १६०..
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः .
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः .. १६१..
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः .
शतानन्दः शतधृतिः शतपत्रायतेक्षणः .. १६२..
शतानीकः शतमखः शतधारावरायुधः .
सहस्रपत्रनिलयः सहस्रफणिभूषणः .. १६३..
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः .. १६४..
दशसाहस्रफणिभृत्फणिराजकृतासनः .
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः .. १६५..
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः .
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः .. १६६..
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः .
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः .. १६७..
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः .
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः .. १६८..
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः .
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः .. १६९..
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः .
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः .. १७०..
इति वैनायकं नाम्नां सहस्रमिदमीरितम् .
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः .. १७१..
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् .
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः .. १७२..
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता .
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता .. १७३..
जगत्संवननं विश्वसंवादो वेदपाटवम् .
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् .. १७४..
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता .
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा .. १७५..
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् .
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते .. १७६..
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः .
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते .. १७७..
धर्मार्थकाममोक्षाणामनायासेन साधनम् .
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् .. १७८..
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् .
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् .. १७९..
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् .
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् .. १८०..
परकृत्यप्रशमनं परचक्रप्रमर्दनम् .
संग्राममार्गे सवेषामिदमेकं जयावहम् .. १८१..
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् .
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् .. १८२..
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च .
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः .. १८३..
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः .
गुल्मं प्लीहानमशमानमतिसारं महोदरम् .. १८४..
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् .
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् .. १८५..
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् .
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् .. १८६..
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् .
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः .. १८७..
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि .
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये .. १८८..
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् .
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् .. १८९..
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः .
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु .. १९०..
कामरूपः कामगतिः कामदः कामदेश्वरः .
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः .. १९१..
गणेशानुचरो भूत्वा गणो गणपतिप्रियः .
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः .. १९२..
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः .
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः .. १९३..
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते .
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः .. १९४..
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः .
निरन्तरे निराबाधे परमानन्दसंज्ञिते .. १९५..
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते .
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते .. १९६..
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेएन्नरः .
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् .. १९७..
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः .
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम .. १९८..
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि .
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् .. १९९..
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः .
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः .. २००..
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् .
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् .. २०१..
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् .
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् .. २०२..
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः .
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः .. २०३..
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् .
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् .. २०४..
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च .
न तत्फलं विन्दति
यद्गणेशसहस्रनामस्मरणेन सद्यः .. २०५..
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं
प्रोज्जिहाने सायं मध्यन्दिने वा
त्रिषवणमथवा सन्ततं वा जनो यः .
स स्यादैश्वर्यधुर्यः प्रभवति वचसां
कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं
वशयति सुचिरं वर्धते पुत्रपौत्रैः .. २०६..
अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः .
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः .. २०७..
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि .
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी .. २०८..
आयुष्यं वीतरोगं कुलमतिविमलं
सम्पदश्चार्तिनाशः कीर्तिर्नित्यावदाता भवति
खलु नवा कान्तिरव्याजभव्या .
पुत्राः सन्तः कलत्रं गुणवदभिमतं
यद्यदन्यच्च तत्तन् नित्यं यः स्तोत्रमेतत्
पठति गणपतेस्तस्य हस्ते समस्तम् .. २०९..
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः .
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः .. २१०..
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः .
सुमङ्गलो बीजमाशापूरको वरदः कलः .. २११..
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः .
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् .. २१२..
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति .
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये .. २१३..
यः स्तौति मद्गतमना ममाराधनतत्परः .
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः .. २१४..
नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो
निरुपममङ्गलात्मने .
नमो नमो विपुलदयैकसिद्धये नमो नमः
करिकलभाननाय ते .. २१५..
किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः .
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना .. २१६..
.. इति श्रीगणेशपुराणे उपासनाखण्डे
ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं
नाम षट्चत्वारिंशोऽध्यायः ..

|| गणेशभुजंगम् ||



रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम् .
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे .. १ ..

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् .
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे .. २ ..

प्रकाशज्जपारक्तरन्तप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् .
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे .. ३ ..

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् .
विभूषैकभूशं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे .. ४ ..

उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् .
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे .. ५ ..

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् .
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे .. ६ ..

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् .
परं परमोंकारमान्मायगर्भं .
वदन्ति प्रगल्भं पुराणं तमीडे .. ७ ..

चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् .
नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो .. ८ ..

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् .
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने .. ९ ..

श्री सिद्धिविनायक स्तोत्रम् ..



जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्.
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् .. १..

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः.
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा .. २..

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं.
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक .. ३..

त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव.
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो .. ४..

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव.
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः .. ५..

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम.
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् .. ६..

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः.
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् .. ७..

लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः.
हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः .. ८..

नागाननो भक्तपालो वरदस्त्वं दयां कुरु.
सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः .. ९..

विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं.
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः .. १०..

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं.
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् .. ११..

नमनं शंभुतनयं नमनं करुणालयं.
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते .. १२..

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः.
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः .. १३..

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच.
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने .. १४..

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव.
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु .. १५..

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः.
पालकः सर्वभक्तानां भवसि त्वं गजानन .. १६..

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः.
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् .. १७..

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः.
गणेशकृपया ज्ञानसिध्धिं स लभते धनं .. १८..

पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्.
कदापि बाध्यते भूतप्रेतादीनां न पीडया .. १९..

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं.
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः .. २०..

इति श्री सिद्धिविनायक स्तोत्रम् .

|| श्रीगणेशकवचम् ||

.. श्रीगणेशकवचम् ..
श्रीगणेशाय नमः ..
गौर्युवाच .
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो .
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम .. १..
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः .
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि .. २..
मुनिरुवाच .
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं पङ्बाहुकं सिद्धिदम् .
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा .. ३..
विनायकः शिखां पातु परमात्मा परात्परः .
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः .. ४..
ललाटं कश्यपः पातु भृयुगं तु महोदर .
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ .. ५..
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः .
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा .. ६..
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः .
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जजयः .. ७..
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः .
हृदयं गणनाथस्तु हेरंबो जठरं महान् .. ८..
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः .
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः .. ९..
गणक्रीडो जानुसङ्घे उरू मङ्गलमूर्तिमान् .
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु .. १०..
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः .
अङ्गुलीश्च नखान्पातु पद्महसोऽरिनाशनः .. ११..
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु .
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु .. १२..
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु .
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ..१३..
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः .
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः .. १४..
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः .
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् .. १५..
राक्षसासुरवेतालग्रहभूतपिशाचतः .
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः .. १६..
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् .
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् .. १७..
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा .
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु .. १८..
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः .
न भयं जायते तस्य यक्षरक्षःपिशाचतः .. १८..
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् .
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् .. २०..
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् .
मारणोच्चाटकर्षस्तम्भमोहनकर्मणि .. २१..
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् .
तत्तत्फलवाप्नोति साधको नात्रसंशयः ..२२..
एकविंशतिवारं च पठेत्तावद्दिनानि यः .
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् .. २३..
राजदर्शनवेलायां पठेदेतत्त्रिवारतः .
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् .. २४..
इदं गणेशकवचं कश्यपेन समीरितम् .
मुद्गलाय च तेनाथ माण्डव्याय महर्षये .. २५..
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् .
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् .. २६..
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् .
राक्षसासुरवेतालदैत्यदानवसम्भवा .. २७..
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ..

॥ संकष्टनाशनं गणेशस्तोत्रम्‌ ॥




प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्‌।
भक्तावासं स्मरेभिन्नत्यमायुः-कामा-ऽर्थसिद्धये॥1॥


प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्‌।
तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकम्‌॥2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाऽष्टमम्‌॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम्‌।
एकादशं गणपतिं द्वादशं तु गजाननम्‌॥4॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्‌॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्‌।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्‌॥6॥

जपेद् गणपतिस्तोत्रं षड्भिर्मासेः फलं लभेत्‌।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥

अष्टानां ब्राह्मणानां च लिखित्वा यः समर्पयेत्‌।
तस्य विद्या भवेत्‌ सर्वा गणेशस्य प्रसादतः॥8॥

॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

संकटनाशन महागणपति स्तोत्रम (मराठी)

संकटनाशन महागणपति स्तोत्रम (मराठी)

साष्टांग नमन हे माझें। गौरीपुत्रा विनायका। भक्तीने स्मरतां नित्य। आयु:कामार्थ साधती।।1।।
प्रथम नावं वक्रतुंड। दुसरें एकदंत ते। तिसरें कृष्णपिंगाक्ष। चवथें गजवक्त्र ते।।2।।
पांचवें श्री लंबोदर। सहावें विकट नांव तें। सातवें विघ्नराजेंद्र। आठवें धूम्रवर्ण तें।।3।।
नववें श्रीभालचंद्र। दहावें श्रीविनायक। अकरावें गणपति। बारावें श्रीगजानन।।4।।
देवनावें अशीं बारा। तीन संध्या म्हणो नर। विघ्नभीति नसे त्याला। प्रभो! तूं सर्वसिद्धिद।।5।।
विद्यार्थ्याला मिळे विद्या। धनार्थ्याला मिळे धन। पुत्रार्थ्याला मिळे पुत्र। मोक्षार्थ्याला मिळे गति।।6।।
जपतां गणपति स्तोत्र। सहा मासांत हें फळ। एक वर्ष पूर्ण होता। मिले सिद्धि न संशय।।7।।
नारदांनीं रचिलेले। झालें संपूर्ण स्तोत्र हें। श्रीधरानें मराठींत। पठण्या अनुवादिलें।।8।।