||.. महागणपति सहस्रनाम स्तोत्रम् ..||


. मुनिरुवाच .
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् .
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर .. १..
. ब्रह्मोवाच .
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे .
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल .. २..
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् .
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि .. ३..
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् .
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् .. ४..
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् .
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् .. ५..
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य .
गणेश ऋषिः .
महागणपतिर्देवता .
नानाविधानिच्छन्दांसि .
हुमिति बीजम् .
तुङ्गमिति शक्तिः .
स्वाहाशक्तिरिति कीलकम् .
. अथ करन्यासः .
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः .
कुमारगुरुरीशान इति तर्जनीभ्यां नमः .. १..
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः .
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः .. २..
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः .
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ..
३..
. अथ हृदयादिन्यासः .
छन्दश्छन्दोद्भव इति हृदयाय नमः .
निष्कलो निर्मल इति शिरसे स्वाहा .
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् .
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् .
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् .
अनन्तशक्तिसहित इत्यस्त्राय फट् .
भूर्भुवः स्वरोम् इति दिग्बन्धः .
. अथ ध्यानम् .
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् .
अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं
विघ्नराजं नमामि सकलविघ्नविनाशनद्वारा .. १..
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः .
. श्रीगणपतिरुवाच .
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः .
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः .. १..
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः .
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः .. २..
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः .
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः .. ३..
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः .
विनायको विरूपाक्षो वीरः शूरवरप्रदः .. ४..
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः .
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः .. ५..
कुमारगुरुरीशानपुत्रो मूषकवाहनः .
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः .. ६..
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः .
कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः .. ७..
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः .
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः .. ८..
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः .
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः .. ९..
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः .
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः .. १०..
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् .
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः .. ११..
किरीटी कुण्डली हारी वनमाली मनोमयः .
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः .. १२..
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् .
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः .. १३..
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः .
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः .. १४..
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः .
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः .. १५..
गणाधिराजो विजयः स्थिरो गजपतिध्वजी .
देवदेवः स्मरः प्राणदीपको वायुकीलकः .. १६..
विपश्चिद्वरदो नादो नादभिन्नमहाचलः .
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः .. १७..
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः .
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः .. १८..
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः .
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः .. १९..
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः .
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः .. २०..
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः .
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् .. २१..
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः .
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः .. २२..
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः .
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः .. २३..
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः .
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः .. २४..
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः .
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः .. २५..
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः .
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः .. २६..
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः .
सद्भक्तध्याननिगडः पूजावारिनिवारितः .. २७..
प्रतापी काश्यपो मन्ता गणको विष्टपी बली .
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः .. २८..
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः .
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः .. २९..
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः .
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः .. ३०..
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः .
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः .. ३१..
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः .
लिपिपद्मासनाधारो वह्निधामत्रयालयः .. ३२..
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः .
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः .. ३३..
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः .
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः .. ३४..
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः .
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः .. ३५..
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः .
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् .. ३६..
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः .
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः .. ३७..
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः .
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः .. ३८..
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः .
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः .. ३९..
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः .
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः .. ४०..
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् .
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः .. ४१..
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः .. ४२..
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् .
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् .. ४३..
कल्पवल्लीधरो विश्वाभयदैककरो वशी .
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः .. ४४..
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः .
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् .. ४५..
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः .
भारतीसुन्दरीनाथो विनायकरतिप्रियः .. ४६..
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः .
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः .. ४७..
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः .
आमोदमोदजननः सप्रमोदप्रमोदनः .. ४८..
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः .
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः .. ४९..
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः .
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः .. ५०..
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः .
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् .. ५१..
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः .
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः .. ५२..
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः .
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः .. ५३..
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः .
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः .. ५४..
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् .
ऐरावतादिसर्वाशावारणो वारणप्रियः .. ५५..
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः .
जयाजयपरिकरो विजयाविजयावहः .. ५६..
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः .
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः .. ५७..
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः .
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः .. ५८..
सुभगासंश्रितपदो ललिताललिताश्रयः .
कामिनीपालनः कामकामिनीकेलिलालितः .. ५९..
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः .
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः .. ६०..
नलिनीकामुको वामारामो ज्येष्ठामनोरमः .
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः .. ६१..
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः .
अमृताब्धिकृतावासो मदघूर्णितलोचनः .. ६२..
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः .
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः .. ६३..
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः .
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः .. ६४..
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः .
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः .. ६५..
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः .
आधारपीठमाधार आधाराधेयवर्जितः .. ६६..
आखुकेतन आशापूरक आखुमहारथः .
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः .. ६७..
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः .
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः .. ६८..
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः .
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः .. ६९..
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः .
ईशानमौलिरीशान ईशानप्रिय ईतिहा .. ७०..
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः .
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः .. ७१..
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः .
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः .. ७२..
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः .
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः .. ७३..
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् .
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः .. ७४..
एकारपीठमध्यस्थ एकपादकृतासनः .
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः .. ७५..
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः .
ऐरंमदसमोन्मेष ऐरावतसमाननः .. ७६..
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः .
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः .. ७७..
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः .
अः समस्तविसर्गान्तपदेषु परिकीर्तितः .. ७८..
कमण्डलुधरः कल्पः कपर्दी कलभाननः .
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः .. ७९..
कदम्बगोलकाकारः कूष्माण्डगणनायकः .
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् .. ८०..
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः .
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः .. ८१..
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः .
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः .. ८२..
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः .
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः .. ८३..
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः .
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् .. ८४..
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः .
चराचरपिता चिन्तामणिश्चर्वणलालसः .. ८५..
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः .
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः .. ८६..
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः .
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः .. ८७..
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः .
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः .. ८८..
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः .
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः .. ८९..
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः .
तारकान्तरसंस्थानस्तारकस्तारकान्तकः .. ९०..
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् .
दक्षयज्ञप्रमथनो दाता दानं दमो दया .. ९१..
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः .
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः .. ९२..
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः .
धनं धनपतेर्बन्धुर्धनदो धरणीधरः .. ९३..
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः .
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः .. ९४..
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः .
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः .. ९५..
परं व्योम परं धाम परमात्मा परं पदम् .. ९६..
परात्परः पशुपतिः पशुपाशविमोचनः .
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः .. ९७..
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः .
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः .. ९८..
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः .
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली .
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः .. ९९..
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः .
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः .. १००..
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः .
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः .. १०१..
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः .
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः .. १०२..
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः .
महाबलो महावीर्यो महाप्राणो महामनाः .. १०३..
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः .
यशस्करो योगगम्यो याज्ञिको याजकप्रियः .. १०४..
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः .
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः .. १०५..
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः .
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः .. १०६..
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः .
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः .. १०७..
वामदेवो विश्वनेता वज्रिवज्रनिवारणः .
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः .. १०८..
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः .
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः .. १०९..
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः .
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् .. ११०..
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः .
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः .. १११..
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः .
स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखी .. ११२..
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् .
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः .. ११३..
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः .
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः .. ११४..
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः .
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः .. ११५..
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः .
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः .. ११६..
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः .
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः .. ११७..
पराभिचारशमनो दुःखहा बन्धमोक्षदः .
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः .. ११८..
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् .
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः .. ११९..
राशिस्तारा तिथिर्योगो वारः करणमंशकम् .
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः .. १२०..
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः .
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् .. १२१..
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् .
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः .. १२२..
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः .
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः .. १२३..
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः .
सांख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः .. १२४..
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः .
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् .. १२५..
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् .
शैवं पाशुपतं कालामुखंभैरवशासनम् .. १२६..
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता .
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् .. १२७..
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् .
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः ..
१२८..
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः .
एक एकाक्षराधार एकाक्षरपरायणः .. १२९..
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् .
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः .. १३०..
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः .
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः .. १३१..
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः .
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः .. १३२..
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः .
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः .
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः .. १३३..
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः .. १३४..
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः .
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः .. १३५..
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः .
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः .. १३६..
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः .
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः .. १३७..
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः .
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः .. १३८..
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः .
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः .. १३९..
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः .
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः .. १४०..
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः .
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः .. १४१..
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः .
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् .. १४२..
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः .
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः .. १४३..
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः .
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् .. १४४..
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः .
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः .
नवनागासनाध्यासी नवनिध्यनुशासितः .. १४५..
नवद्वारपुरावृत्तो नवद्वारनिकेतनः .
नवनाथमहानाथो नवनागविभूषितः .. १४६..
नवनारायणस्तुल्यो नवदुर्गानिषेवितः .
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः .. १४७..
दशात्मको दशभुजो दशदिक्पतिवन्दितः .
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः .. १४८..
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः .
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः .. १४९..
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः .
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् .. १५०..
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः .
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः .. १५१..
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः .
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः .. १५२..
षोडशाधारनिलयः षोडशस्वरमातृकः .
षोडशान्तपदावासः षोडशेन्दुकलात्मकः .. १५३..
कलासप्तदशी सप्तदशसप्तदशाक्षरः .
अष्टादशद्वीपपतिरष्टादशपुराणकृत् .. १५४..
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः .
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः .. १५५..
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् .
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः .. १५६..
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः .
सप्तविंशतितारेशः सप्तविंशतियोगकृत् .. १५७..
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः .
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः .. १५८..
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः .
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः .
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः .. १५९..
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः .
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः .. १६०..
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः .
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः .. १६१..
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः .
शतानन्दः शतधृतिः शतपत्रायतेक्षणः .. १६२..
शतानीकः शतमखः शतधारावरायुधः .
सहस्रपत्रनिलयः सहस्रफणिभूषणः .. १६३..
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः .. १६४..
दशसाहस्रफणिभृत्फणिराजकृतासनः .
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः .. १६५..
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः .
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः .. १६६..
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः .
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः .. १६७..
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः .
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः .. १६८..
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः .
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः .. १६९..
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः .
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः .. १७०..
इति वैनायकं नाम्नां सहस्रमिदमीरितम् .
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः .. १७१..
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् .
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः .. १७२..
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता .
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता .. १७३..
जगत्संवननं विश्वसंवादो वेदपाटवम् .
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् .. १७४..
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता .
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा .. १७५..
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् .
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते .. १७६..
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः .
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते .. १७७..
धर्मार्थकाममोक्षाणामनायासेन साधनम् .
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् .. १७८..
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् .
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् .. १७९..
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् .
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् .. १८०..
परकृत्यप्रशमनं परचक्रप्रमर्दनम् .
संग्राममार्गे सवेषामिदमेकं जयावहम् .. १८१..
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् .
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् .. १८२..
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च .
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः .. १८३..
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः .
गुल्मं प्लीहानमशमानमतिसारं महोदरम् .. १८४..
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् .
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् .. १८५..
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् .
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् .. १८६..
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् .
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः .. १८७..
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि .
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये .. १८८..
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् .
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् .. १८९..
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः .
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु .. १९०..
कामरूपः कामगतिः कामदः कामदेश्वरः .
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः .. १९१..
गणेशानुचरो भूत्वा गणो गणपतिप्रियः .
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः .. १९२..
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः .
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः .. १९३..
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते .
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः .. १९४..
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः .
निरन्तरे निराबाधे परमानन्दसंज्ञिते .. १९५..
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते .
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते .. १९६..
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेएन्नरः .
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् .. १९७..
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः .
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम .. १९८..
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि .
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् .. १९९..
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः .
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः .. २००..
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् .
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् .. २०१..
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् .
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् .. २०२..
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः .
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः .. २०३..
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् .
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् .. २०४..
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च .
न तत्फलं विन्दति
यद्गणेशसहस्रनामस्मरणेन सद्यः .. २०५..
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं
प्रोज्जिहाने सायं मध्यन्दिने वा
त्रिषवणमथवा सन्ततं वा जनो यः .
स स्यादैश्वर्यधुर्यः प्रभवति वचसां
कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं
वशयति सुचिरं वर्धते पुत्रपौत्रैः .. २०६..
अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः .
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः .. २०७..
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि .
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी .. २०८..
आयुष्यं वीतरोगं कुलमतिविमलं
सम्पदश्चार्तिनाशः कीर्तिर्नित्यावदाता भवति
खलु नवा कान्तिरव्याजभव्या .
पुत्राः सन्तः कलत्रं गुणवदभिमतं
यद्यदन्यच्च तत्तन् नित्यं यः स्तोत्रमेतत्
पठति गणपतेस्तस्य हस्ते समस्तम् .. २०९..
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः .
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः .. २१०..
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः .
सुमङ्गलो बीजमाशापूरको वरदः कलः .. २११..
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः .
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् .. २१२..
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति .
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये .. २१३..
यः स्तौति मद्गतमना ममाराधनतत्परः .
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः .. २१४..
नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो
निरुपममङ्गलात्मने .
नमो नमो विपुलदयैकसिद्धये नमो नमः
करिकलभाननाय ते .. २१५..
किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः .
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना .. २१६..
.. इति श्रीगणेशपुराणे उपासनाखण्डे
ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं
नाम षट्चत्वारिंशोऽध्यायः ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा