||देवीचतुःषष्ट्युपचारपूजास्तोत्रम्||

    .. देवीचतुःषष्ट्युपचारपूजास्तोत्रम् .. ॐ अथ श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम् उषसि मागधमङ्गलगायनैः झटिति जागृहि जागृहि जागृहि . अतिकृपार्द्रकटाक्षनिऱीक्षणैः जगदिदं जगदम्ब सुखीकुरु .. १ .. कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् . मणिमयमण्टपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् .. २ .. कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् . भगवति तव संनिवासहेतोः मणिमयमन्दिरमेतदर्पयामि .. ३ .. तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा . नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता .. ४ .. कनकमयवितर्दिस्थापिते तूलिकाढये विविधकुसुमकीर्णे कोटिबालार्कवर्णे . भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय .. ५ .. मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् . कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि .. ६ .. दूर्वया सरसिजान्वितविष्णु- कान्तया च सहितं कुसुमाढ्यम् . पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ..७.. गन्धपुष्पयवसर्षपदूर्वा- संयुतं तिलकुशाक्षतमिश्रम् . हेमपात्रनिहितं सह रत्नैः अध्यर्मेतदुररीकुरु मातः .. ८ .. जलजद्युतिना करेण जाती- फलतक्कोललवङ्गगन्धयुक्तैः . अमृतैरमृतौरिवातिशीतैः भगवत्याचमनं विधीयताम् .. ९ .. निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् . तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् .. १० .. एतच्चम्पकतैलमम्ब विविधैः पुष्पैः मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैः भ्रमद्भिः वृतम् . सानन्दं सुरसुन्दरीभिरभितो हस्तैः धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते .. ११ .. मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः . केशानामलकैः विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः .. १२ .. दुधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः . स्नपयामि तवाहमादरात् जननि त्वां पुनरुष्णवारिभिः .. १३ .. एलोशीरसुवासितैः सकुसुमैर्गङ्गादि तीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः . मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु .. १४ .. बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् . मुक्ताभिः ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु .. १५ .. नवरत्नमये मयार्पिते कमनीये तपनीयपादुके . सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् .. १६ .. बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा . सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि .. १७ .. सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् . तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय .. १८ .. मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले . केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् .. १९ .. धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् . मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कटखां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ .. २० .. मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः . वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् .. २१ .. रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः . अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा .. २२ .. जननि चम्पकतलैमिदं पुरो मृगमदोपयुतं पटवासकम् . सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् .. २३ .. सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति . बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती- रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव .. २४ .. मन्दारकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततं अहं परिपूजयामि . जातीजपावकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि .. २५ .. मालतीवकुलहेमपुष्पिका- काञ्चनारकरवीरकैतकैः . कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः .. २६ .. पारिजातशतपत्रपाटलैः मल्लिकावकुलचम्पकादिभिः . अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः .. २७ .. लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः . श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्त्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु .. २८ .. रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः . आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः .. २९ .. मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः . एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् .. ३० .. सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि . शाकोल्लसन्मरिचिजीरकबाह्निकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि .. ३१ .. क्षीरमेतदिदंमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु . मातरेतदमृतोपमं पयः संभ्रमेण परिपीयतां मुहुः .. ३२ .. उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे . कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन .. ३३ .. अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् . पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् .. ३४ .. जम्बवाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि . सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि .. ३५ .. कूश्माण्डकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि . सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि .. ३६ .. कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः . मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु .. ३७ .. एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि . ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि .. ३८ .. ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् . सौवर्णपात्रनिहितं खदिरेन सार्धं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण .. ३९ .. महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान् . बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते .. ४० .. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य . मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः .. ४१ .. अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः . मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि .. ४२ .. मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् . भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् .. ४३ .. शरदिन्दुमरीचिगौरबर्णै- र्मणिमुक्ताविलसत्सुवर्णदण्डैः . जगदम्ब विचित्रचामरैस्त्वा- महमानन्दभरेण बीजयामि .. ४४ .. मार्ताण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते . पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् .. ४५ .. इन्द्रादयो नतिनतैर्मकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम् . तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः .. ४६ .. प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः . भगवति कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरंगः .. ४७ .. मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः कनककलितघण्टाकिङ्कणीशोभिकण्ठः . श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्यान्मत्तमातङ्ग एषः .. ४८ .. द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् . कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि .. ४९ .. हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम् . अतिबहु चतुरङ्गसैन्यमेत- द्भगवति भक्तिभरेण तेऽर्पयामि .. ५० .. परिघीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते विपुलम् . प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि .. ५१ .. शतपत्रयुतैः स्वभावशीतैः अतिसौरभ्ययुतैः परागपीतैः . भ्रमरीमुखरीकृतैरनन्तैः व्यजनैस्त्वां जगदम्ब वीजयामि .. ५२ .. भ्रमरलुलितलोलकुन्तलाली- विगलितमाल्यविकीर्णरङ्गभूमिः . इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः .. ५३ .. मुखनयनविलासलोलवेणी- विलसितनिर्जितलोलभृङ्गमालाः . युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः .. ५४ .. भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः . अनुपमितसुवेषा वारयोषा नटन्ति परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु .. ५५ .. डमरुडिण्डिमजर्झरझल्लरी- मृदुरवद्रगडद्द्रगडादयः . झटिति झाङ्कृतझाङ्कृतझाङ्कृतैः बहुदयं हृदयं सुखयन्तु ते .. ५६ .. विपञ्चीषु सप्तस्वरान्वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः . क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि .. ५७ .. अभिनयकमनीयैर्नर्तनैर्नर्तकीनां क्षनमपि रमयित्वा चेत एतत्त्वदीयम् . स्वयमहमतिचितैर्नृत्तवादित्रगीतैः भगवति भवदीयं मानसं रञ्जयामि .. ५८ .. तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः . तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः .. ५९ .. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति . तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि .. ६० .. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् . अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् .. ६१ .. चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कन्ठदेशेऽर्पयित्वा . शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु .. ६२ .. अथ मणिमयञ्चकाभिरामे कनकमयवितानराजमाने . प्रसरदगरुधूपधूपितेऽस्मि- न्भगवति भवनेऽस्तु ते निवासः .. ६३ .. एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ . विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि- न्पर्यङ्के कनकमये निषीद मातः .. ६४ .. तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः . अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् .. ६५ .. अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् . तपनीयमये हि पट्टके मुखगण्डूचजलं विधीयताम् .. ६६ .. क्षणमथ जगदम्ब मञ्चकेऽस्मि- न्मृदुतलतूलिकया विराजमाने . अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती .. ६७ .. मुक्ताकुन्देन्दुगौरां मणिमयकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् . नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि .. ६८ .. एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व . न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः .. ६९ .. पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे . ध्रमार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवभावमेति .. ७० .. पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः . पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति .. ७१ .. प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् . वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् .. ७२ .. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा