||देवीपञ्चरत्न||

 .. देवीपञ्चरत्न ( देवी प्रातःस्मरण ) ..

             .. श्रीः ..

        .. देवी पञ्चरत्नम् ..

प्रातः स्मरामि ललिता वदनारविन्दं
     बिम्बाधरं पृथल-मौक्तिक शोभिनासम् .
आकर्ण-दीर्घ-नयनं मणिकुण्डलाढ्यं
     मन्दस्मितं मृगमदोज्ज्वल-फाल-देशम् .. १..

प्रातर्भजामि ललिता-भुज-कल्पवल्लीं
     रत्नांगुळीय-लसदंगुळि-पल्लवाढ्याम् .
माणिक्य-हेम-वलयांगद-शोभमानां
     पुंड्रेक्षु-चाप-कुसुमेषु-सृणीं दधानाम् .. २..

प्रातर्नमामि ललिता-चरणारविन्दं
     भक्तेष्ट-दान-निरतं भवसिन्धु-पोतम् .
पद्मासनादि-सुरनायक-पूजनीयं
     पद्मांकुश-ध्वज-सुदर्शन-लाञ्चनाढ्यम् .. ३..

प्रातस्तुवे परशिवां ललितां भवानीं
     त्रय्यन्त-वेद्य-विभवां करुणानवद्याम् .
विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां
     विश्वेश्वरीं निगमवाङ्मनसातिदूराम् .. ४..

प्रातर्वदामि ललिते तव पुण्यनाम
     कामेश्वरीति कमलेति महेश्वरीति .
श्री शांभवीति जगताम् जननी परेति
     वाग्देवतेति वचसा त्रिपुरेश्वरीति .. ५..

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
     सौभाग्यदं सुललितं पठति प्रभाते .
तस्मै ददाति ललिता झडिति प्रसन्ना
     विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् .. ६..

.. इति श्रीमच्छङ्करभगवतः कृतौ देवीपञ्चरत्नं संपूर्णम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा