||.. गायत्र्यष्टकम् .||


.. गायत्र्यष्टकम् ..
     .. शंकराचार्यविरचितम् ..

विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् .
ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. १ ..

जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां
तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् .
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. २ ..

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं
विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् .
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ३ ..

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिकान्
बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् .
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ४ ..

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् .
मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ५ ..

संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
ताराहीरसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् .
राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ६ ..

वेणीभूशितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां
तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् .
नासालंकृतमौक्तिकेन्दुकिरणैः सायंतमश्छेदिनीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ७ ..

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां
रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् .
वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ८ ..

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासंगमान्
दोषाञ्छैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः .
गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा
जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः .. ९ ..

इति श्रीमत्परमहंसपरिव्राजकाचार्य
श्रीमच्छंकराचार्यविरचितं गायत्र्यष्टकं संपूर्णम्

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा