||.. अर्धनारीश्वराष्टकम् ..||


.. 

अंभोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय |
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय || १||

प्रदीप्तरत्नोज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय |
शिवप्रियायै च शिवप्रियाय
नमः शिवायै च नमः शिवाय || २||

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धरायै |
दिव्याम्बरायै च दिगम्बराय 
नमः शिवायै च नमः शिवाय || ३||

कस्तूरिकाकुङ्कुमलेपनायै
श्मशानभस्मात्तविलेपनाय |
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय || ४||

पादारविन्दार्पितहंसकायै
पादाब्जराजत्फणिनूपुराय |
कलामयायै विकलामयाय
नमः शिवायै च नमः शिवाय || ५||

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय |
समेक्षणायै विषमेक्षणाय 
नमः शिवायै च नमः शिवाय || ६||

प्रफुल्लनीलोत्पललोचनायै
विकासपङ्केरुहलोचनाय |
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय || ७||

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये
पुरश्च पश्चाच्च विदिक्षु दिक्षु |
सर्वं गतायै सकलं गताय 
नमः शिवायै च नमः शिवाय || ८||

अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् |
यः पठेच्छृणुयाद्वापि शिवलोके महीयते || ९||

|| इति उपमन्युकृतं अर्धनारीश्वराष्टकम् ||

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा