||.. श्री कामाक्षी सुप्रभातम् ..||

.. श्री कामाक्षी सुप्रभातम् ..
श्री देवी ध्यानम्

जगदवन विधौ त्वं जाग रूका भवानि
 तव तु जननि निद्रामात्मवत्कल्पयित्वा .
प्रतिदिवसमहं त्वां बोधयामि प्रभाते
 त्वयि कृतमपराधं सर्वमेतं क्षमस्व .. १..

यदि प्रभातं तव सुप्रभातं
 तदा प्रभातं मम सुप्रभातम् .
तस्मात्प्रभाते तव सुप्रभातं
 वक्ष्यामि मातः कुरु सुप्रभातम् .. २..

गुरु ध्यानम्

यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं
 जिव्हां गताऽसि वरदे मम मन्द बद्धः .
यस्यांब नित्यमनघे हृदये विभासि
 तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् .. ३..

जये जयेन्द्रो गुरुणा ग्रहीतो
 मठाधिपत्ये शशिशेखरेण .
यथा गुरुस्सर्व गुणोपपन्नो
 जयत्यसौ मङ्गळमातनोतु .. ४..

शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा
 शुभं दिशतु नो देवी कामकोटी मटेशः .
शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो
 सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः .. ५..

.. शुभम् ..

.. श्रीः ..

कामाक्षि देव्यंब तवाद्रर्दृष्ट्या
        मूकस्वयं मूककवीर्यथाऽसीत् .
तथा कुरुत्वं परमेश जाये
        त्वत्पादमूले प्रणतं दयाद्रेर् ..

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि .
उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु .. १..

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम्
         मृदङ्गभेरीपटहानकानाम् .
वेदध्वनिं शिक्षितभूसुराणाम् .
         शृणोषि भद्रे कुरु सुप्रभातम् .. २..

शृणोषि भद्रे ननु शङ्ख घोषम्
         वैताळिकानां मधुरं च गानम् .
शृणोषि मातः पिककुक्कुटानाम्
         ध्वनिं प्रभाते कुरु सुप्रभातम् .. ३..

मातर्निरीक्ष वदनं भगवान्शशाङ्को
         लज्जान्वितः स्वयमहो निलयं प्रविष्टः .
द्रष्टुं त्वदीय वदनं भगवान्दिनेशो
         ह्यायाति देवि सदनं कुरु सुप्रभातम् .. ४..

पश्याम्ब केचित्घृतपूर्णकुम्भाः
         केचिद् दयाद्रेर् धृतपुष्पमालाः .
काचित्शुभाङ्गयो ननुवाद्यहस्ताः
         तिष्ठन्ति तेषां कुरु सुप्रभातम् .. ५..

भेरीमृदङ्गपणवानकवाद्यहस्ताः
         स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् .
तिष्ठन्ति देवि समयं तव काङ्क्षमाणा
         ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् .. ६..

मातर्निरीक्ष वदनं भगवान्त्वदीयम्
         नैवोत्थितश्शशिधिया शयितस्तवाङ्के .
संबोधयाशु गिरिजे विमलं प्रभातम्
         जातं महेशदयिते कुरु सुप्रभातम् .. ७..

अन्तश्चरन्त्यास्तव भूषणानाम्
         झल्झल्ध्वनिं नूपुरकङ्कणानाम् .
शृत्वा प्रभाते तव दर्शनार्थी
         द्वारि स्थितोऽहं कुरु सुप्रभातम् .. ८..

वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना
         रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् .
काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा .
         नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् .. ९..

उत्थाय देवि शयनाद्भगवान्पुरारिः
         स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् .
नैको हि गन्तुमनघे रमते दयाद्रेर्
         ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् .. १०..

पश्यांब केचित्फलपुष्पहस्ताः
         केचित्पुराणानि पठन्ति मातः .
पठन्ति वेदान्बहवस्तवारे
         तेषां जनानां कुरु सुप्रभातम् .. ११..

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम्
         कन्दर्पदर्पदळनोऽपि वशंगतस्ते .
कामारिचुम्बितकपोलयुगं त्वदीयं
         द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् .. १२..

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां
         गङ्गाजलैः स्नपयितुं बहवो घटांश्च .
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः
         द्वारि स्थिता हि वरदे कुरु सुप्रभातम् .. १३..

मन्दारकुन्दकुसुमैरपि जातिपुष्पैः
         मालाकृता विरचितानि मनोहराणि .
माल्यानि दिव्यपदयोरपि दातुमंब
         तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् .. १४..

काञ्चीकलापपरिरंभनितम्बबिम्बम्
         काश्मीरचन्दनविलेपितकण्ठदेशम् .
कामेशचुम्बितकपोलमुदारनासां
         द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम् .. १५..

मन्दस्मितं विमलचारुविशालनेत्रम्
         कण्ठस्थलं कमलकोमलगर्भगौरम् .
चक्राङ्कितं च युगळं पदयोमृर्गाक्षि
         द्रष्टं स्थिताः वयमये कुरु सुप्रभातम् .. १६..

मन्दस्मितं त्रिपुरनाशकरं पुरारेः
         कामेश्वरप्रणयकोपहरं स्मितं ते .
मन्दस्मितं विपुलहासमवेक्षितुं .
         ते मातः स्थिताः वयमये कुरु सुप्रभातम् ..१७..

माता शिशूनां परिरक्षणार्थम्
         न चैव निद्रावशमेति लोके .
माता त्रयाणां जगतां गतिस्त्वम्
         सदा विनिद्रा कुरु सुप्रभातम् .. १८..

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः
         हृद्यानि दिव्यमधुराणि मनोहराणि .
श्रोतुं तवांब वचनानि शुभप्रदानि
         द्वारि स्थिता वयमये कुरु सुप्रभातम् .. १९..

दिगंबरो ब्रह्मकपालपाणिः
         विकीर्णकेशः फणिवेष्ठिताङ्गः .
तथाऽपि मातस्तव देविसङ्गात्
         महेश्वरोऽभूत् कुरु सुप्रभातम् .. २०..

अयि तु जननि दत्तस्तन्यपानेन देवि
         द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः .
द्रविडतनयभुक्तक्षीरशेषं भवानी
         वितरसि यदि मातः सुप्रभातं भवेन्मे .. २१..

जननि तव कुमारः स्तन्यपानप्रभावात्
         शिशुरपि तव भर्तुः कर्णमूले भवानि .
प्रणवपदविशेषं बोधयामास देवि
         यदि मयि च कृपा ते सुप्रभातं भवेन्मे .. २२..

त्वं विश्वनाथस्य विशालनेत्रा
         हालस्यनाथस्य नु मीननेत्रा .
एकाम्रनाथस्य नु कामनेत्रा
         कामेशजाये कुरु सुप्रभातम् .. २३..

श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये .
त्वत्पादभक्तिभरितः फलपुष्पपाणिः .
एकाम्रनाथदयिते तव दर्शनार्थी .
तिष्ठत्ययं यतिवरो मम सुप्रभातम् .. २४..

एकाम्रनाथदयिते ननु कामपीठे
          संपूजिताऽसि वरदे गुरुशङ्करेण .
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम्
          द्रष्टुं शिता वयमये कुरु सुप्रभातम् .. २५..

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ
          चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ .
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं
          त्रिपुरदळनजाये सुप्रभातं ममार्ये .. २६..

मातस्तदीयचरणं हरिपद्मजाद्यैः
          वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् .
द्रष्टुं च योगिजनमानसराजहंसं
          द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् .. २७..

पश्यन्तु केचिद्वदनं त्वदीयं
          स्तुवन्तु कल्याणगुणांस्तवान्ये .
नमन्तु पादाब्ज युगं त्वदीयाः
          द्वारि स्थितानां कुरु सुप्रभातम् .. २८..

केचित्सुमेरोश्शिखरेऽतितुङ्गे
          केचित्मणिद्वीपवरे विशाले .
पश्यन्तु केचित्त्वमृदाभ्धिमध्ये
          पश्याम्यहं त्वामिह सुप्रभातम् .. २९..

शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
          श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् .
कामाक्षीं  कामदात्रीं  कुटिलकचभरां  भूषणैर्भूषिताङ्गीं
          पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् .. ३०..

कामप्रदाकल्पतरुर्विभासि
          नान्या गतिर्मे ननु चातकोऽहम् .
वर्ष्यस्यमोघः कनकांबुधाराः
          काश्चित्तु धाराः मयि कल्पयाशु .. ३१..

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् .
त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके .. ३२..

कृतज्ञता

कामाक्षि देव्यंब तवार्द्रदृष्ट्या
           कृतं मयेदं खलु सुप्रभातम् .
सद्यः फलं मे सुखमंब लब्धं
           तथा च मे दुःखदशा गता हि .. ३३..

प्रार्थना

ये वा प्रभाते पुरतस्तवार्ये
           पठन्ति भक्त्या ननु सुप्रभातम् .
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
           तेषां प्रभातं कुरु सुप्रभातम् .. ३४..

 इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा