||.. कीलकस्तोत्रम् ..||

.. कीलकस्तोत्रम् ..
          ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच .
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे .
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे  .. १..
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् .
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः  .. २..
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि .
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः  .. ३..
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते .
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम्  .. ४..
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः .
कृत्वा निमन्त्रयामास सर्वमेवमिदं  शुभम्  .. ५..
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः .
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम्  .. ६..
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः .
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः  .. ७..
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति .
इत्थं रूपेण कीलेन महादेवेन कीलितम्  .. ८..
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः .
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्  .. ९..
न चैवापाटवं तस्य भयं क्वापि न जायते .
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात्  .. १०..
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति .
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः  .. ११..
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने .
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्  .. १२..
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः .
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्  .. १३..
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च .
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः  .. १४..
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः .
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्  .. १५..
अग्रतोऽमुं महादेवकृतं कीलकवारणम् .
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः  .. १६..
      .. इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा