अर्धनारीश्वरस्तोत्रम् श्रीमच्छंकरभगवतः कृत

.. अर्धनारीश्वरस्तोत्रम् ..
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय .
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय .. १ ..
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय .
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय .. २ ..
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय .
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय .. ३ ..
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय .
समेक्षणयै विषमेक्षणाय नमः शिवायै च नमः शिवाय .. ४ ..
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय .
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय .. ५ ..
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय .
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय .. ६ ..
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय .
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय .. ७ ..
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय .
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय .. ८ ..
एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी .
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः .. ९ ..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा