||.. अपराधक्षमापणस्तोत्रम् ..||


ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः  .. १..
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु  .. २..
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि  .. ३..
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि  .. ४..
सर्वरूपमयी देवी सर्वं देवीमयं जगत् .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम्  .. ५..
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि  .. ६..
 यदत्र पाठे जगदम्बिके मया
      विसर्गबिन्द्वक्षरहीनमीरितम् .
 तदस्तु सम्पूर्णतमं प्रसादतः
      सङ्कल्पसिद्धिश्व सदैव जायताम्  .. ७..
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं  प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं  ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद  .. ८..
 प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले .
 प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते  .. ९..
   .. इति अपराधक्षमापणस्तोत्रं समाप्तम्..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा